________________
तृतीयाध्याये द्वितीयमाह्निकम्
१४१. प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकारा सुख
दुःखप्रयत्नाश्चात्मलिङ्गानि ॥ ४ ॥ प्राणः प्राणनं, प्राणवायोर्बहिः निस्सारणम् । अपानः अपाननं, प्राणवायोरन्तराकर्षणम् । निमेषोन्मेषौ चक्षुषो निमीलनोन्मीलने । जीवनं शरीरधारणम् । मनोगतिः मनसः तेन तेनेन्द्रियेण सन्निकर्षाय सञ्चारः । इन्द्रियान्तरविकारः अनुभूतसुगन्धिरसाढ्यफलदर्शनेन आस्ये दन्तोदकसंप्लवः । एते सुखदुःखादयश्च पात्मनो लिङ्गानि । आत्मनः सत्त्वे प्रमाणानि इत्यर्थः । आत्मनः इमानि काणि । आत्मानं विना नैतानि भवेयुः। मृतशरीरे एषामभावात् । अतः ज्ञानवदेतान्यपि तल्लिङ्गानीति भावः । भोक्तुरात्मनः करणत्वेन शेषत्वात् निर्देशे पश्चात्तनस्यापि मनसः मनोगतेरप्यात्मलिङ्गत्वकथनसौकर्याय पूर्व निरूपणमिति स्पष्टम् । शरीरे यद्यद्भवति तत्सर्वमात्मायत्तमिति तत्प्रावान्यख्यापनाय इयतामात्मलिङ्गत्वोक्तिः ।
अत्र प्राणापानयोरात्मलिङ्गत्वाभिधानात् आत्मन. प्राणव्यतिरिक्तत्वं, निमेषोन्मेषोक्तया चक्षुरिद्रियात्, मनोगत्युक्तया मनसः, इन्द्रियान्तरविकारोक्तया सर्वेन्द्रियान्तरेभ्यः, सुखाद्युक्तया तेभ्यश्च व्यतिरिक्तत्वं ज्ञापितम् ।
एवमात्मा साधितः । अथ तद्गतान् विशेषानाह :१४२. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ ५ ॥
तस्य प्रात्मनः द्रव्यत्वं ज्ञानादिगुणाश्रयत्वात् वायुवत् सिद्धम् । अद्रव्यत्वान्निस्यत्वं वायुपरमाणुवत् ॥
वायाविव आत्मनि आगमिकत्वपूर्वपक्षं कुर्वन् प्रथमं तत्र दृष्टं लिङ्ग नास्तीत्याहः१४३. यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्ग न
विद्यते ॥ ६ ॥ अयं यज्ञदत्त इति तच्छरीरप्रत्ययजनके सन्निकर्ष सति तच्छरीरिण पात्मना प्रत्यक्षाभावात् तस्मिन् तल्लिङ्गस्य ज्ञानादेः गवि गोत्वादिलिङ्गस्य विषाणित्वककुद्मत्वादेरिव दृष्टत्वाभावात् प्रात्मनि दृष्टं लिङ्ग न विद्यत इत्यर्थ :॥