________________
अथ तृतीयाध्याये
द्वितीयमाह्निकम् मनोनिरूपणपूर्वकं आत्मसंबन्धिनो बहून् विषयान् प्रतिपादयितुं इदमाह्निकं प्रवर्तते । १३८. प्रात्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥ १।
आत्मेन्द्रियार्थसन्निकर्षे ज्ञानं निष्पद्यत इत्युक्तम् । तत्र आत्मसंयुक्तस्य चक्षुषः घटेन सन्निकर्षे सति कदाचित् घटज्ञानं जायते । कदाचिन्न जायते च । तत् कस्मादिति चेत् तत्र एवं वक्तव्यम् । चक्षुर्व्यतिरिक्तमपि किञ्चिदिन्द्रियमस्ति । आत्मा यदा तेन संयुज्यते, तच्च चक्षुषा, चक्षुश्च घटेन, तदा घटज्ञानस्य भावः उत्पत्तिः । यदा तु आत्मसंयुक्त तदतिरिक्तमिन्द्रियं चक्षुषा न संयुज्यते तदा चक्षुर्घटसन्निकर्षे सत्यपि घटज्ञानस्यानुत्यत्तिः अभावः इति । यत् तदतिरिक्तमिन्द्रियं तन्मन इति आत्मादिसन्निकर्षे सति ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥
१३६. तस्य द्रव्यत्वनित्यवे वायुना ध्याख्याते ॥ २ ॥
तस्य उक्तयुक्तया सिद्धस्य मनसः क्रियावत्त्वात् संयोगसंख्यापरिमाणादिगुणवत्त्वाच्च वायुवत् द्रव्यत्वं सिद्धयति । अद्रव्यत्वात् वायुपरमाणुवन्नित्यत्वम् ॥
अथ सङ्ख्योच्यते - १४०. प्रयत्नायौगपद्यात् ज्ञानायोगपद्याच्चैकम् ॥ ३ ॥
एकमेव मनः एकस्यात्मनः। जानाति इच्छति यतत इति ज्ञानेच्छाप्रयत्ना आत्मनि मनःसंयोगाज्जायन्ते । तत्र यदि युगपद् अनेकं ज्ञानं वा इच्छा वा प्रयत्नो वा उत्पद्यत तर्हि तत्कारणतया अनेकं मनः कल्प्येत । न च तथाऽस्ति । एकस्मिन् काले एकमेव ज्ञानं, तन्मूलेच्छा, प्रयत्नश्च । अतोऽनेकमनःकल्पने हेत्वभावात् एकमेव मन इति । यद्यपि ज्ञानायौगपद्यादित्येकेनवालं हेतुना तथाऽपि ज्ञानप्रयोज्यस्य प्रयत्नस्यैकत्वात् प्रयोजकं ज्ञानमप्येकमेव, न तु कदाचिदप्यनेकमिति तदेकत्वद्रढिम्ने प्रयत्नायौगपद्यमपि हेतूकृतमिति ज्ञयम् ॥