________________
तृतीयाध्याये द्वितीयमाह्निकम् यद्येवं तर्हि अहंशब्दार्थः अहंप्रत्ययगोचरः प्रात्मेत्येव तन्निरूपणं सुकरम् । कि ज्ञानादिलिङ्गकानुमानोपन्यासव्यसनेनेत्यत्राह१४८. दृष्ट आत्मनि लिङ्ग एक एव दृढत्वात् प्रत्यक्षवत्
प्रत्ययः॥ ११ ॥ यद्यप्यहमिति प्रत्यक्ष आत्मा तथापि सः शरीरसंपृक्तः पयोमिश्रं नीरमिव न स्फुटो भासते । शरीरमेवाहमर्थ इति मतिर्भवति । तत्र प्रदर्शितरीत्या ज्ञानलिङ्गन शरीरेन्द्रियादिव्यतिरिक्ततया आत्मनि निश्चिते 'अहं' जानामीति प्रत्यक्षमात्मानं तत्स्थं ज्ञानं च पश्यति । एवं स्वात्मनि दृष्टेन लिङ्गेन परात्मनि यः प्रत्ययो जायते स एक एव दृढत्वात् सन्देहानहत्वात् प्रत्यक्षवत् अनुमितिरूपत्वेऽपि प्रत्यक्षतुल्यः प्रत्ययो भवति । एवं च स्वात्मनि अहंप्रत्ययस्य विविक्तविषयत्वसिद्धये परात्मनि दृष्टलिङ्गन दृढानुमितिसिद्धये च पूर्व ज्ञानलिङ्गन आत्मसाधनमिति भावः ॥
अहं देवदत्तः अहं यज्ञदत्त इति प्रत्यक्ष प्रतिपादयता देवदत्तादिसंज्ञाः आत्मवाचिन्यः इत्युक्त भवति। तथा सति 'देवदत्तो गच्छति' 'यज्ञदत्तो गच्छति' इति व्यवहारः कथम् ? न हि गमनक्रिया आत्मनि समवैति । शरीरवृत्तित्वात् । अत्राह१४६. देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचारात, शरीरे
प्रत्ययः ॥ १२ ॥ अस्मिन् व्यवहारे आत्मवाचिनो देवदत्तादिशब्दस्य शरीरे उपचारः अमुख्यवृत्तिः। तेन औपचारिकोऽयं प्रत्ययः॥
१५०. सन्दिग्धस्तूपचारः॥ १३ ॥
आत्मवाचिनो यज्ञदत्तादिशब्दस्य शरीरे उपचार इति सन्दिग्धमेतत् । मुख्यवृत्त्या शरीरवाची । उपचारादात्मवाचीति किं न स्यात् ।।
इति शङ्कायां परिहारमाह