Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 61
________________ ४२ न वेति संशयो भवति । ज्ञानाभावेऽपि विद्यमानस्यापि ज्ञानाभावो भवति । यथा भूम्यन्तर्गतस्य जलस्य । तस्मात् किं विद्यमानस्य ज्ञानाभावः उत अविद्यमानस्येति संशयो भवति । "उपलब्ध्यनुपलब्ध्यव्यवस्थातः संशयः" इति तन्त्रान्तरे यदुक्त तदेवात्रापीति युक्त ग्रहीतुम् । संशय इति पुनरुक्तिः संशयप्रकरणसमाप्तिसूचनाय । यद्यप्यत्र सर्वत्र "सामान्यग्रहणात् विशेषाग्रहणात् विशेपस्मृतेश्च संशयः” इति प्रथमः प्रकारः समन्वित इति दर्शयितुं शक्यते तथापि मुख्यतः इमे प्रकारभेदाः सन्तीन्येतन्नापह्नवाहम् । एवं सामान्यतः संशयहेतून उक्त्वा शब्दविषयो विचाराङ्गभूतो यः संशयः तद्वेतुभूतं विशेषं दर्शयति १०१. श्रोत्रग्रहणो योऽर्थः स शब्दः ॥२१॥ श्रोत्रं श्रवणेन्द्रियं ग्रहणं ग्राहक यस्तादृशः यः अर्थः द्रव्यगुणकर्मान्यतमरूपः पदार्थः सः शब्दः शब्दपदवा यः । श्रोत्रग्राह्यत्वं शब्दस्य विशेषः असाधारणधर्म इत्युक्त भवति ॥ अनेन विशेषेण जायमानं संश:माह१०२. तस्मिन् द्रव्यं गुणः कर्मति संशयः ॥२२॥ अस्मिन् श्रोत्रग्राह्यत्वरूपविशेषवति शब्दे संशयः किमिति । द्रव्यं वा गुणो वा कर्म वेति । सत्तासामान्यवत्त्वात् शब्दत्वरूपसामान्यविशेषवत्त्वाच्च द्रव्यगुणकर्मान्यतमत्वं सिद्धम् । तेषु किमिति संशयः । तत्रहेतुमाह १०३. तुल्यजातीयेऽवर्थान्तरभूतेषु विशेषयोरुभयथा दृष्टत्वात् ॥२३॥ शब्दो गुण इति कृत्वा तस्याश्रयतया आकाशस्य सिद्धिरिति पूर्वमुक्तम् । तेन गुणाः तस्य सजातीयाः । द्रव्याणि कर्माणि चान्तिराणि । अन्ये पदार्थाः विजातीया इत्यर्थः । शब्दस्य श्रोत्रग्राह्यत्वरूपो यो विशेषः सः तुल्यजातीयेषु गुणेष न विद्यते । अतुल्यजातीयेषु द्रव्यकर्मस्वपि न विद्यत इत्युभयथा दृष्टः । एवमस्योभयथा दृष्टत्वात् संशयो भवति । श्रोत्रग्राह्योयं अतथाभूतत्वात् सर्वेषां गुणानां गुणो न भवितुमर्हति । तथैव द्रव्याणां कर्मणां च सर्वेषां श्रोत्रग्राह्यत्वाभावात् द्रव्यं वा कर्म वा न भवितुमर्हति । भवितव्यं तु एषामन्यतमेन । सत्तासामान्यवत्त्वात् । तत् द्रव्यं वा गुणो वा कर्म वा

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154