________________
४२
न वेति संशयो भवति । ज्ञानाभावेऽपि विद्यमानस्यापि ज्ञानाभावो भवति । यथा भूम्यन्तर्गतस्य जलस्य । तस्मात् किं विद्यमानस्य ज्ञानाभावः उत अविद्यमानस्येति संशयो भवति । "उपलब्ध्यनुपलब्ध्यव्यवस्थातः संशयः" इति तन्त्रान्तरे यदुक्त तदेवात्रापीति युक्त ग्रहीतुम् । संशय इति पुनरुक्तिः संशयप्रकरणसमाप्तिसूचनाय ।
यद्यप्यत्र सर्वत्र "सामान्यग्रहणात् विशेषाग्रहणात् विशेपस्मृतेश्च संशयः” इति प्रथमः प्रकारः समन्वित इति दर्शयितुं शक्यते तथापि मुख्यतः इमे प्रकारभेदाः सन्तीन्येतन्नापह्नवाहम् ।
एवं सामान्यतः संशयहेतून उक्त्वा शब्दविषयो विचाराङ्गभूतो यः संशयः तद्वेतुभूतं विशेषं दर्शयति
१०१. श्रोत्रग्रहणो योऽर्थः स शब्दः ॥२१॥
श्रोत्रं श्रवणेन्द्रियं ग्रहणं ग्राहक यस्तादृशः यः अर्थः द्रव्यगुणकर्मान्यतमरूपः पदार्थः सः शब्दः शब्दपदवा यः । श्रोत्रग्राह्यत्वं शब्दस्य विशेषः असाधारणधर्म इत्युक्त भवति ॥
अनेन विशेषेण जायमानं संश:माह१०२. तस्मिन् द्रव्यं गुणः कर्मति संशयः ॥२२॥
अस्मिन् श्रोत्रग्राह्यत्वरूपविशेषवति शब्दे संशयः किमिति । द्रव्यं वा गुणो वा कर्म वेति । सत्तासामान्यवत्त्वात् शब्दत्वरूपसामान्यविशेषवत्त्वाच्च द्रव्यगुणकर्मान्यतमत्वं सिद्धम् । तेषु किमिति संशयः । तत्रहेतुमाह
१०३. तुल्यजातीयेऽवर्थान्तरभूतेषु विशेषयोरुभयथा दृष्टत्वात् ॥२३॥
शब्दो गुण इति कृत्वा तस्याश्रयतया आकाशस्य सिद्धिरिति पूर्वमुक्तम् । तेन गुणाः तस्य सजातीयाः । द्रव्याणि कर्माणि चान्तिराणि । अन्ये पदार्थाः विजातीया इत्यर्थः । शब्दस्य श्रोत्रग्राह्यत्वरूपो यो विशेषः सः तुल्यजातीयेषु गुणेष न विद्यते । अतुल्यजातीयेषु द्रव्यकर्मस्वपि न विद्यत इत्युभयथा दृष्टः । एवमस्योभयथा दृष्टत्वात् संशयो भवति । श्रोत्रग्राह्योयं अतथाभूतत्वात् सर्वेषां गुणानां गुणो न भवितुमर्हति । तथैव द्रव्याणां कर्मणां च सर्वेषां श्रोत्रग्राह्यत्वाभावात् द्रव्यं वा कर्म वा न भवितुमर्हति । भवितव्यं तु एषामन्यतमेन । सत्तासामान्यवत्त्वात् । तत् द्रव्यं वा गुणो वा कर्म वा