________________
वैशेषिकसूत्रवृत्तिः
४३ अयमिति । सत्तया अन्यतमः पदार्थो भवितुमहंतीति प्रतीतिमवति । विशेषस्योभयथा दर्शनात् न भवितुमर्हतीति प्रतीतिर्भवति । अनयोः प्रतीत्योविरोधात् संशयः विरुद्धप्रतीतिजननद्वारा संशयहेतुः उभयथा दृष्टो विशेषः ।
नन्वसाधारणधर्मस्य एतन्मते संशयहेतुत्वं नास्तीति चेन्न । प्रत्यक्षं सूत्रकारे तद्वदति तदितरोक्त रश्रद्धेयत्वात् । परमतमभ्युपेत्येदमुक्तमिति वा मन्यताम् । अथ गन्धवत्त्वरूपं विशेषमादाय पृथिव्यामपि द्रव्यं गुणः कर्मेति संशयः "तुल्यजातीयेष्वर्थान्तर भूतेषु विशेषस्योभयथा दृष्टत्वात्" इति सुवचम् । स्नेहमादायाप्स्वपि । तत् कथं शब्दमात्र एवं विचार इति चेदुच्यते । पृथिव्यादौ गुणत्वादिवादो न कश्चिदवलम्बितः। शब्दे द्रव्यत्ववादस्तु मीमांसकैः प्रतितः । तन्निराकरणाय विशिष्य शब्देऽयं विचार इति ॥
तत्र द्रव्यत्वकोटि निवर्तयति१०४. एकद्रव्यत्वान्न द्रव्यम् ॥२४॥
एकमेव समवायिकारणभूतं द्रव्यं यस्य तत् एकद्रव्यम् । तस्य भावः तत्त्वम् । तस्मात् । शध्दः न द्रव्यम्, एकद्रव्यत्वात्, कर्मवत् । शब्दः कार्यमिति वक्ष्यते । स यदि द्रव्यं, अनेकद्रव्यारब्धो भवेत् घटपटवत् । न चैवं सः । आकाशात्मकैकद्रव्यारब्धत्वात् । अतः न द्रव्यम् ।
अथ गुणत्वकोटेरिष्टत्वात् कर्मत्वकोटि निवर्तयति१०५. नापि कर्माचाक्षुषत्वात् प्रत्ययस्य ॥२५॥
शब्दः कर्मापि न, प्रत्ययस्य तद्विषयकस्य ज्ञानस्य अचाक्ष षत्वात् । चाक्षुषभिन्नत्वात् । चक्ष जन्यज्ञानभिन्नत्वात् । चक्षुरजन्यज्ञानविषयत्वादित्युक्तं भवति । अत्र चक्ष :पदं कर्मग्रहणयोग्येन्द्रियपरम् । ईदृशेन्द्रियाजन्यप्रत्यक्षज्ञानविषयत्वादिति पर्यवसितो हेतुः । गन्वादिवदित्युदाहरणं द्रष्टव्यम्।
अथाभिमतं गुणत्वमनुवदन् कर्मत्वशङ्काबीजं प्रकारान्तरेणोपपादयति ।
१०६. गुणस्य सतोऽपवर्गः कर्मभिः सामान्यम् ॥२६॥ बलवन्नुन्ने शरे पतनात्पूर्वं कर्मपरंपरा जायते । पूर्व कर्म नश्यति । अन्यत् कर्म जायते । इदं नश्यति । पुनरन्यत् कर्म जायते । एवमान्तम् । एवमेव भेर्या जातात् शब्दात् कर्णगोचरशब्दपर्यन्तं महती शब्दपरम्परा । पूर्व शब्दो नश्यति । अन्यः शब्दो जायते ।