________________
उत्तरोत्तरमेवम् । एवं यतः पूर्वपूर्व नाशः कर्मपरम्परायामिव शब्दपरम्परायाम स्ति अतः शब्दः कर्मेति शङ्क्येत । तत्रोच्यते । गुणस्य सतः गुणभूतस्यैव शब्दस्य अपवर्ग: पूर्वपूर्वस्य नाशः कर्मभिः सामान्यसाधारणधर्मवत्त्वम् ननु कर्मत्वापादको हेतुः ।
न हि बलवता प्रमाणेन भिन्नजातीयत्वेन अवघृतानां पदार्थानां साधर्म्यमात्रेण एकजातीयत्वं भवतीति भावः ।
शब्दगुणप्रकरणं समाप्तम् । अथ तदनित्यत्वप्रकरणम् । तत्र प्रथमं तस्य श्रवणपूर्वापरकालसत्त्वे प्रमाणा भावमाह--
१०७. सतो लिङ्गाभावात ॥२७॥
सतः श्रवणकालात् पूर्वमनन्तरं च सतः विद्यमानस्य शब्दस्य लिङ्ग ज्ञापक प्रमाणं तस्याभावात् । अयमनित्य इत्युपर्यन्वयः । नित्यो हि त्रिकालवर्ती । श्रवणकालात्पूर्वमनन्तरं चासन् कथं नित्यः स्यात् । तत्र असत्वं कथमिति चेत् सत्वावेदकप्रमाणाभावात् । नहि अप्रमाणकं किञ्चिदभ्युपगमर्महति ।
१०८. नित्यवैधात् ॥२८॥
अनित्यत्वे प्रमाणमाह । नित्यात् पदार्थात् वैधात् विलक्षणत्वात् । तदवृत्तिधर्मत्वादित्यर्थः । नित्यो हि सर्वकालवर्ती। अयं तु कादाचित्कः अल्पकालवर्ती द्विक्षणावस्थायी अतो न नित्यः ।।
१०६. अनित्यश्चायं कारणतः ॥२६॥
अयं शब्दः कारणतः तज्जनकोच्चारणादिकारणवत्त्वाच्चानित्यः उत्पत्तिविनाशवान् । अनित्यश्च । न परं गुणः अनित्यश्च त्यपि चकारयोजना ।
"सदकारणवन्नित्यम्'' इति नित्यलक्षणं वक्ष्यति । तत्र प्रपूर्वसूत्रोक्तः सत्त्वाभावः गतसूत्रोक्तः अकारणवत्त्वाभावश्च मध्ये "नित्यत्ववैधात्" इत्यनेनाभिप्रताविति सुवचम् ॥
ननु उच्चारणादिकं न शब्दस्योत्पत्तिकारणम् । शब्दस्य कार्यत्वे सिद्ध हि तत् तत्र कारणमिति गृह्णीयाम । शब्दो नित्यः । उच्चारणादिकममिव्यञ्जकमिति किं न स्यात् । अत्राह