________________
बंशेषिकसूत्रवृत्तिः ११०. न चासिद विकारात् ॥३०॥
अनित्यत्वे हेतुतया निर्दिष्टं कारणवत्त्वं न च नैव असिद्धं पक्षे असत्त्वरूपासिद्धिदोषवत् । कुतः। विकारात् । शब्दे हि अवस्थान्तररूपो विकारो भवति । यथा-"दघि" इति स्थितः इकारः "दध्यत्र” इति यकाररूपेण विक्रियते । न च भकार्यस्य विकारो भवेत् । तस्मात् कार्यः, उत्पत्तिमान् शब्दः। अत एव कारणवांश्च । अतो नासिद्धिहेतोः॥
____ न केवलं साधकसत्त्वात् कार्यत्वं शब्दस्य । अपितु अभिव्यक्तौ बाधकसत्वाच्चेस्याह
१११. अभिव्यक्ती दोषात ॥३१॥
यद्युच्चारणात् प्रागपि शब्दोऽस्ति तर्हि कुतो नोपलभ्यते । तिरोधानादिति चेत् केन । किञ्चिदस्ति, यत् तिरोदधाति, इति चेत् यद्यस्ति उपलभ्येत न चोपलभ्यते । उच्चारणात् प्राक् शब्दस्य सत्त्वकल्पना, अनुपलभ्यमानतद्धेतुभूतवस्तुकल्पना, इति अप्रामाणिककल्पनापरम्परारूपो दोष आपतति । तस्मान्नाभिव्यक्तिः शब्दस्य । अपितु उत्पत्तिरेव । अतः सिद्धं शब्दस्य कार्यत्वम् ।
११२. संयोगाद्विभागाच्छब्दाच्च शब्दनिष्पत्तिः ॥३२॥
भेरीदण्डसंयोगात् शब्दो जायते। तथा वेणुदलविभागात् । प्राभ्यां शब्दाभ्यां च तदुत्तरौ शब्दौ । एवं त्रेधा शब्दो जायते । त्रिविधोऽप्ययं ध्वन्यात्मकः । अयं घटपटादिवत् स्वकारणादुत्पद्यत इति प्रत्यक्षमसन्दिग्धं पश्यामः । नात्र व्यङ्ग्यत्वशङ्काया मनागप्यवसरः । एवमेव वर्णात्मकशब्देऽपि शङ्का न युज्यत इति भावः ॥
११३. लिङ्गाच्चानित्यः ॥३३।।
वेदादपि शब्दस्यानित्यत्वमध्यवसेयमित्याह । वेदस्यापि अनुमानविषयंव प्रमाणत्वात् "बुद्धिपूर्वा वाक्यकृतिवेंदे" इति वक्ष्यमाणरीत्या वेदस्यानुमितिविशेषे हेतुत्वाच्च लिङ्गशब्देन तदभिधानम् । न केवलं उक्ताभिर्युक्तिभिः शब्दोऽनित्यः । अपि तु वेदादपि इति चकारार्थः । अनित्य इत्यस्य धर्मी शब्द इति प्रकरणाल्लभ्यते ।
फा --११