________________
"यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परः स महश्वरः।" इति श्र तिः। सर्ववेदमूलस्य प्रणवस्य प्रकृतिरकार इहोक्तः। प्रकृतिः उपादानकारणम् । तदिह वर्णानां प्रकृतिविकारभावोक्तेः तेषामनित्यत्वं प्रतिपादितं भवति ।
वेद एव शब्दस्यानित्यत्वमाहेत्येतच्छत्वा वैदिकः प्रत्यवतिष्ठते । ११४. द्वयोस्तु प्रकृत्योरभावात् ॥३४॥
तुकारः पूर्वोक्ते आक्षेपसूचनार्थः । शब्दस्यानित्यत्वे आर्चायंस्य शिष्यस्य चेति द्वयोः क्रमेण वेदविद्यादानरूपाया प्रवृत्तिः, या च तद्ग्रहणरूपा प्रवृत्तिः तयोरभावप्रसङ्गः । आचार्येणोच्चारितस्य शब्दस्य तदेव नाशात् शिष्येण तद्ग्रहणासम्भवात्, अभावप्रसङ्गान्न शब्दोऽनित्यः इति पूरणमल्लभ्यते ।
११५. प्रथमाशब्दात् ।।३५॥
अत्र "त्रिः प्रथमामन्याह' इति विधिस्थः प्रथमाशब्दोऽभिप्रेतः । एकादशासु ऋक्ष प्रथमा त्रिरावर्तनीयेति विधिवाक्यार्थः। शम्दो नित्श्चत् ऋक् त्रिरावय॑त इति युज्यते । तदनित्यत्वे तु प्रथमपठिता ऋक् तदैव नष्टा भवति । द्वितीयवारं पठ्यमाना अन्यैव ऋक् भवति । एवं तृतीयवारं पठ्यमानाऽपि । तथा च आवृत्तिनं घटते । द्वितीयतृतीययोःप्रथमात्वपि न घटते । अतः शब्दनित्यत्वं वेदादवगम्यते ।
११६. सम्प्रतिपत्तिभावाच्च ॥३६॥
सम्प्रतिपत्तिः स एवायमिति प्रत्यभिज्ञा । तस्या भावाच्च सत्त्वाच्च शब्दनित्यत्वम् । सोयं गकारः इति हि प्रत्यभिज्ञा सार्वत्रिकी । चकारः पूर्वहेतुसमुच्चयमिव पूर्वपक्षावसानमपि द्योतयति ।
११७. सन्दिग्धाः सति बहुत्वे ॥३७॥
बहुत्वे सति, अनित्यत्ववादिनां अस्माकं सिद्धान्तिनां शब्दा बहवः । तदा तदा उच्चार्यमाणा गकारादयो भिन्नभिन्नाः सन्तो बहवो भवन्ति । तत्र आचार्यंणोच्चारितस्य वर्णस्य नाशेऽपि तन्मूलतत्सजातीयवर्णपरम्परायामेकः शिष्यकणं प्राप्त! तेन गृह्यते । अतो द्वयोः प्रवृत्त्यभावप्रसङ्गरूपो हेतुः सन्दिग्धः । अनेकान्तिकः ।