________________
वैशेषिकसूत्रवृत्तिः हेत्वाभास इत्यर्थः । प्रथमाशब्दोपि कथञ्चिदुपपादनीय इति सोऽपि हेत्वाभासः । एवं प्रत्यभिज्ञाऽपि । स एव ब्रीहिरिति हि व्यक्तिभेदेपि जात्येकत्वप्रयुक्तो व्यवहारः । प्रबलप्रमाणवशात् अनित्यत्वे, तेन बहुत्वे च सिद्धे सति एकताहेतवः अमाधका हेत्वामासा भवन्तीत्यर्थः।
११८ संख्याभावः सामान्यतः ॥३८॥
संख्यायाः प्रथमात्वस्य द्वितीयतृतीयपठितयोः ऋचोः भावः सामान्यतः ऐकरूप्यात् शब्दव्यक्तिभेदेऽपि वर्णात्मकानां शब्दानां शब्दानुपूच्चि समानत्वादित्यर्थः । उपपादनीय इति शेषः । श्रुतिरपि दृष्टानुरोधेनैव नेयेति ज्ञापनार्थमस्य पृथगुक्तिः ।
आकाशगुणस्य शब्दस्य गुणत्वानित्यत्वस्थापनस्य कालदिनिरूपणात् पूर्वमेव औचित्येऽपि प्रात्मनो भोगे "प्रसिद्धा इन्द्रियार्थी' इत्यनुपदं निर्देक्ष्यमाणानां रूपरसगन्धस्पर्शशब्दानां भोग्यविषयतया प्रधानत्वस्य, अदृष्टानुरोधेन क्लुप्ते काले देशे च भोग इत्यधिकरणतया देशकाल योरुपसर्जनत्वस्य च व्यञ्जनाय शब्दविचारस्य कालदिनिरूपणानन्तरं अध्यायान्ते निबन्ध इति बोध्यम् ॥
इति कणादसूत्रवृत्तो सुगमायां द्वितीयाध्याये द्वितीयमाह्निकम् ।।