________________
वैशेषिकसूत्र
९७. सामान्य प्रत्यक्षाद् विशेषाप्रत्यक्षाद
विशेषस्मृतेश्च संशयः ॥१७॥ शब्दस्य गुणत्वं कार्यत्वं च सिद्धं कृत्वा तेन आकाशसिद्धिः पूर्वमुक्ता। तस्य तदुभयसाधनाय अद्य प्रकरणान्तरमारभ्यते । तत्र संशयपूर्वकत्वाद् विचारस्य प्रथमं संशयमेव तद्धेतुमिनिरूपयति ।
एकस्मिन् विरुद्धनानाप्रकारकं ज्ञानं संशयः । स कथं जायत इति चेदुच्यते । सामान्यस्य धर्मिद्वयसाधारणस्य धर्मस्य ऊर्ध्वत्वादेः प्रत्यक्षात् इन्द्रियजन्यज्ञानात्, विशेषस्य एकधर्मिमात्रवृत्तेः इतरव्यावर्तकस्य स्थाणुत्वपुरुषत्वादेः अप्रत्यक्षात् प्रत्यक्षज्ञानाभावात्, विशेषस्य स्थाणुत्वपुरुषत्वादेः स्मृतेः स्मरणाच्च भवतीति । अनतिप्रकाशे स्थले ऊध्वं 'वस्तु' किमपि दृष्ट्वा संशेरते “अयं स्थाणु र्वा पुरुषो वेति' । तत्र इदं हेतुत्रयमस्ति । अथवा इदं समुदितं एको हेतुः ॥
१८. दृष्टं च दृष्टवद् द्रष्टा ॥१८॥
संशये हेत्वन्तरमाह । दृष्टं पूर्व दृष्टं यज्ञदत्तं दृष्टवत् पूर्वदृष्टकञ्चुकोष्णीषधारि देवदत्तमिव, एतद्वत् कञ्चुकोष्णीषधारिणमित्यर्थः । द्रष्टा च, एवं दर्शनाच्च संशयो भवति । अयं यज्ञदत्तो देवदत्तो वेति । यज्ञदत्तस्य आकारविशेषः, देवदत्तवेषः तेन ध्रियमाणश्चेति द्वौ विशेषो दृश्यमानौ विशेषान्तरद्ववावगाहिनं संशयं जनयतः । चकारेण हेत्वन्तरसमुच्चयः प्रतीयते । मुखं व्यादाय स्वपितीत्यत्र पूर्वकालत्वस्येव दृष्ट्वा संशयः इत्यत्र समानकर्तृकत्वस्याविवक्षा।
६९. यथा दृष्टमयथादृष्टं चोभयथा दृष्ट त्वात् ॥१६॥
प्रथमं चैत्रः शिखावान् दृष्टः । ततः कृत्तशिखः । एवमुभयथा दर्शनानन्तरं पुनः कदाचिद् दूरे दृष्टः । तदानीं तस्य शिखावत्त्वे 'चैत्रः शिखारहितोऽपि भवति । तस्मादयं चैत्रो न वे'ति संशयो भवति । विशिखत्वेऽपि स शिखावानपि तदयं स वा न वेति संशयो भवति । तस्मादेकस्य पूर्वमुभयथा दर्शनमपि पश्चात् संशयहेतुः ॥
१००. विद्याऽविद्यातश्च संशयः ॥२०॥
विद्या ज्ञानम् । अविद्या ज्ञानाभावः । ताभ्यामपि संशयो भवति । ज्ञाने जाते विद्यमानमपि रजतं ज्ञायते । अविद्यमानमपि शुक्तौ । तस्मात् विषयो वस्तुतो विद्यते