________________
६२. तत्त्व भावेन ॥१२॥
परमपरमिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्च सत्तान्यायेन दिशोऽप्येकत्वम् । सर्वत्र तत्तद्धेतुभूतानां आकाशकालदिशामेकत्वे सति विभुत्वमपि सिद्ध्यति ।
६३. कार्यविशेषेण नानात्वम ॥१३॥
स्वरूपतः एकस्या अपि दिशः कार्याणां तत्रोत्पद्यमानानां उपाधीनां विशेषेण भेदेन नानात्वं विभिन्नव्यवहारविषयत्वं भवति । कथम् ? तदुच्यते
६४. प्रादित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राची ॥१४॥
आदित्यसंयोग इत्यविशेषेणोक्तावपि अर्थात् योग्यो विशेषोऽनुसन्धेयः। आदित्यस्य प्रथमसंयोगो यत्र भवति स दिग्भागः प्राचीत्युच्यते । न च "आदित्यस्य प्रथमः संयोगः क्षणिकः । तस्मिन् अजाते वा नष्टे वा प्राचीत्वं न स्यात्" इति शङ्कनीयम् । चिराद् भूतपूर्वो वा श्वः प्रभृति भविष्यत् वा प्रद्य प्रातर्भूतो वा यः कश्चन संयोगो गृह्यताम् । तदवच्छिन्ना दिक् प्राची।
६५. तथा दक्षिणा प्रतीची उदीची च ॥१५॥
तथा प्रादित्यसंयोगविशेषैरेव अन्या अपि दिशो भवन्ति । प्राङ्मुखं स्थितस्य पुरुषस्य दक्षिणपार्श्व प्रसृतः रश्मिभिः यया दिशा आदित्यः संयुज्यते सा दक्षिणा । एकस्मिन् दिने आदित्यस्य चरमः संयोगः यत्र भूतपूर्वो भविष्यन् भूतो वा सा प्रतीची । प्राङ्मुखस्य पुरुषस्य वामपार्श्व प्रसृतः रश्मिभिः यया दिशा आदित्यः संयुज्यते सा उदीची । कर्कटादिषु षट्सु मासेषु आदित्यः यया संयुज्यते सा दक्षिणा । मकरादिषु षट्सु यया संयुज्यते सा उदीची, इत्यपि सुवचम् ।
६६. एतेन दिगन्तरालानि व्याख्यातानि ॥१६॥
एतेन प्राच्यादिनिरूपणेन दिगन्तरालानि, दिशोदिशोर्मध्यानि, दिक्कोणाः, विदिशः, लक्षितानि भवन्ति । प्राग्दक्षिणा, प्रत्यग्दक्षिणा, प्रत्यगुदीची, प्रागुदीचीति ।
अवसितं दिक्प्रकरणम् ।