________________
वैशेषिकसूत्रवृत्तिः ८६. नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति ॥६॥
कालस्य आकाशादिव्यावृत्तं सर्वकार्यकारणत्वाख्यं विशेषमाह । काल इत्याख्या व्यवहारः । इयं न केवले आकाशादितुल्ये कस्मिश्चिद् द्रव्ये, अपितु कारणे सर्वकार्यकारणभूते। कालः सर्वकार्यकारणमित्यर्थः । कुतः अन्वयव्यतिरेकाभ्याम् । इदमाह नित्येप्विति । कस्य भावोऽभावश्च । अस्मिन् काले इदमुत्पद्यत इति व्यवहारस्य । वसन्ते पुष्पाणि जायन्ते । वर्षासु देवो वर्षति । शरदि पर्णानि पतन्ति । इत्यादेः । नैष नित्येषु भवति । उत्पत्तेरेवाभावे तस्यां कालविशेषान्वयायोगात् । अनित्येपु भवति च । इदानीं घटो जातः । इदानीं इदं पक्वम् इति । ननु इदानीमिति सामग्रीसन्निधानमुच्यते, न काल इति चेन्न । इदानीमित्यस्य पदस्य काल एव शक्तत्वात् । सामग्रीसनिधानस्य तदवच्छेदकत्वात् । वसन्ते वृक्षाः पुष्प्यन्ति फलन्ति चेति व्यवहारतुल्य एवायं व्यवहारः । यदा सामग्री सन्निहिता तदा घटो जायते, इति कालस्य कारणत्वमभिप्रेत्यैव व्यवहार इति स्पष्टम् । आकाशः सर्वदाऽस्ति, घटः पूर्वमासीत्, इत्यादिभिर्व्यवहारैः कालस्य सर्वाधारत्वं प्रतीयत इत्यन्यदेतत् । वसन्ते पुष्पाणि जायन्त इत्यादिभिर्व्यवहारैः तस्य सर्वकार्यकारणत्वमन्यत्रोच्यत इत्यवधेयम् । इतिशब्दः कालप्रकरणावसानसूचनार्थः।
६०. इत इदमिति यतस्तद् दिश्यं लिङ्गम् ॥१०॥
व्यवहितमपि अपरं परमित्येतदनुषज्यते । इतः अस्माद् वस्तुनः, इदं वस्तु अपरं, परमिति प्रतीतिः व्यवहारश्च यतः यस्माद् विषयतया हेतुभूतात् भवति, तत् अपरत्वं परत्वं च दिश्यं दिक्सम्बन्धि लिङ्गम् । दिशः साधकं प्रमाणमित्यर्थः । दक्षिणसमुद्रस्य हिमाचलात् विन्ध्यः अपरः । अस्मात् हिमाचलः परः । अपरत्वं सन्निकृष्टदिक्संयोगात् जायमानो गुणः । परत्वं विप्रकृष्टदिक्संयोगात् जायमानो गुणः । अस्य अपरत्वस्य विन्ध्ये, परत्वस्य हिमाचले च जनकं हि किञ्चित् कारणं वाच्यम् । तत् कारणं दिगित्युच्यते।
६१. द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥११॥
तस्याः द्रव्यत्वं नित्यत्वं च वायुन्यायेन सिद्धम् । द्रव्याद्याधारत्वात् द्रव्यत्वम् । कार्यत्वाभावेन वायुपरमाणुवन्नित्यत्वम् ।