________________
किञ्चित्सम्बन्धजन्यम् । अपरत्वं सन्निकृष्टकिञ्चित्सम्बन्धजन्यम् । अबाधितप्रतीतिव्यवहाराभ्यां अनयोः गुणयोः सिद्धयोः यत्सम्बन्धेन इमौ गुणौ जायते स कालः, इति परत्वमपरत्वं च काललिङ्गम् । गुगपत् समकालम् । अयुगपत् भिन्नकालम् । चिरं दीर्घ कालम् । क्षिप्रं अल्पेन कालेन । इति एवंरूपाः प्रत्ययाः, तन्मूलाः व्यवहाराश्च कालस्य लिङ्गानि तत्सत्त्वे प्रमाणानि । अनुमापका हेतव इत्यर्थः । इमे प्रतीतिव्यवहाराः यथार्थाः, अबाधितविषयत्वात्; प्रमात्मकगोत्वादिप्रतीतिवदित्यनुमानप्रयोगः। अपरस्मिन् परमिति केषाञ्चित् पाठः । उपरि पदद्वन्द्वद्वयवत् इदमपि समानरूपं द्वन्द्वमिति युक्तम् ।।
८७. द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।।७।।
तस्येति आकाशसूत्रवदनुसन्धेयम् । तस्य कालस्य द्रव्यत्वं च वायुप्रकरणोक्तन्यायेन सिद्ध्यति । इदमिदानीमस्ति, इदं पूर्वमासीत्, इदं परस्ताद् भविष्यति, इदं सर्वदाऽस्ति, इति व्यवहारबलात् द्रव्यगुणकर्मात्मकसर्वाधारत्वं कालस्य सिद्धम् । यद्यपि सर्वाधारत्वं न समवायसम्बन्धेन पृथिव्यादेर्गन्धाद्याधारत्वमिव, तथापि विलक्षणेन “कालिकः" इत्येवमेवाभिधीयमानेन सम्बन्धेन । तदप्याधारत्वं मुख्यमैव । यथा समवायसम्बन्धेन कपालस्येव संयोगसम्बन्धेन भूतलस्य घटाधारत्वम् । न च द्रव्यगुणकर्माधारत्वं अद्रव्यस्य सम्भवतीति वायुवत् कालस्यापि द्रव्यत्वम् । तस्य अवयवारब्धत्वे प्रमाणाभावेन कार्यत्वाभावान्नित्यत्वम् । वायुपरमाणोरिव ।
८८. तत्त्व भावेन ॥८॥
अपरं परमिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्च सत्तान्यायेन एकत्वं कालस्य । ननु कालस्यैकत्वे भूतभविष्यद्वर्तमानभेदः कथम् । कथं च क्षणमुहूर्तादिभेदः । उपाधिभेदात् । ध्वस्तस्य घटस्य भूतः कालः । विद्यमानस्य वर्तमानः । अनुत्पनस्य भविष्यन् । एवं एकक्षणावस्थायिपदार्थावच्छिन्नः कालःक्षणः । मुहूर्तकालावस्थायिपदार्थावच्छिन्नः मुहूर्तः । सूर्यदर्शनावच्छिन्नः कालो दिनम् । अदर्शनावच्छिन्नः कालो रात्रिः । मेघावरणादिनाऽदर्शनमादाय दोषोद्भावनपरिहाराय यथोचितं परिष्कारे यतितव्यम् ।