________________
३७
वैशेषिकसूत्रवृत्तिः ८३. एतेनोष्णता व्याख्याता ॥३॥
एतेन अयं गुणः अस्यैव द्रव्यस्य इति व्यवस्थायां यो न्यायः प्रपूर्वसूत्रे उक्तः तेन उष्णता उष्णस्पर्शः व्याख्याता पृथिव्या गुणो नेति शापिता। उष्णमन्न', उष्णा भूमिरिति प्रतीतो सत्यामपि अस्या उष्णतायाः तेजस्संसर्गान्वयव्यतिरेकाभ्यां तेजःसम्बन्धित्वावधारणात् न पार्थिवीयमिति निश्चीयते ।
इदमाह
८४. तेजस्युष्णता ॥४॥
व्यवस्थितेति विपरिणामेनानुषङ्गः। उष्णं जलं उष्णो वायुरित्यपि तेजःसन्निकर्षप्रयुक्त एव व्यवहार इति भावः ।
८५. अप्सु शीतता ॥५॥
व्यवस्थितेति पूर्ववत् । शीतं स्थलं, शीतो वायुरिति प्रतीतिव्यवहारयोः अप्संसर्ग एव निमित्तमिति । ननु प्रथमं शीतता वक्तव्या। पश्चादुष्णतेति चेत् सत्यम् । किन्तु उष्णताशीततयोः तेजोजलयोव्यवस्थाकथनात् पृथिवीवाय्वोः अनुष्णाशीततेति शापितम् । अस्य तृतीयस्य स्पर्शस्य सर्वत्र अनुष्णाशीत इत्येव व्यवहारः । न तु क्वचिदपि प्रशीतानुष्ण इति । अतोऽत्र प्रतियोगितया निविष्टस्पर्शद्वयनमं बुद्धौ कृत्वा उष्णतायाः प्रथमाभिधानमिति ज्ञ यम् ।
वायौ व्यवस्थितो गुणो नास्ति । अतस्तदनुक्तिः । शब्दलिङ्ग नैव आकाशस्य साधनात् सः तस्य व्यवस्थितो गुण इत्यनुक्तिसिद्धम् ।
८६. अपरं परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि ॥६॥
पञ्च भूतानि तत्सम्बन्धिनो विशेषगुणाश्च उक्ताः । गुणकथनं न तन्निरूपणपरत्वेन । अपि तु साधयंवैधाभ्यां द्रव्यतत्त्वविवेकायैव । अथाद्य क्रमप्राप्तकालनिरूपणं क्रियते । तत्र प्रथमं तत्सिद्धौ प्रमाणमाह। अपरं अपरत्वाख्यगुणवत् । परं परत्वाख्यगुणवत् । ज्यायसि परत्वम् । कनीयसि अपरत्वम् । तत्र परत्वं विप्रकृष्ट
फा०-१०