________________
८०. तदनुविधानादेकपृथक्त्वं चेति ॥३१॥
तस्य एकत्वस्य अनुविधानात् अनुवर्तनात् आकाशस्य एकपृथकत्क्वं च गुणोऽस्तीति ज्ञयमिति भावः । यत्र एकत्वं तत्र एकपृथक्त्वमपि, इति एकत्वानुविधानं एकपृथक्त्वस्य । एकवस्तुनिष्ठं पृथक्त्वम् । इमो घटौ इतरेभ्यः पृथगित्यत्र घटद्वयनिष्ठं द्विपृथक्त्वम्, एवं त्रिपृथक्त्वादि ज्ञेयम् । इतिशब्दपाठः प्रामाणिकश्चेत् प्रकरणस्य अह्निकस्य च अवसानसूचनार्थः ।
इति
कणादसूत्रवृत्तौ सुगमायां द्वितीयाध्याये प्रथममाह्निकम् ।
द्वितीयमाहिनकम् ८१. पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तरा प्रादुर्भावो वस्त्रे
गन्धाभावलिङ्गम् ॥१॥ यदा कश्चित् पुष्पं मालारूपेण ग्रथितं मुक्तकं वा वस्त्रेण परिगृह्य आनयति तदा तस्मिन् वस्त्रे तस्य पुष्पस्य यो गुणः गन्धः स प्रादुर्भवति तत्स्थतया घ्राणविषयो भवति । गुणान्तरं ततोऽन्यो गुणः पुष्पगन्धादतिरिक्तो गन्धः न प्रादुर्भवति । अयं गुणान्तरप्रादुर्भावः वस्त्रे पुष्पगन्धाभावस्य लिङ्ग ज्ञापकम् । पुष्पसम्पर्कात् प्राक् तत्र सः गन्धो नासीत् । तदनन्तरमुपलभ्यते। अतः अन्वयव्यतिरेकाम्यां स गन्धः पुष्पस्यैव न वस्त्रस्येत्यवधार्यते। द्रव्येषु गुणव्यवस्थायां अयं न्यायोऽनुसर्तव्य इति भावः ।
उक्तन्यायसिद्धां व्यवस्थामाह८२ व्यवस्थितः पृथिव्यां गन्धः ॥२॥
सुरभि जलं, सुरभिर्वायुः इति जले वायौ च प्रतीयमानो गन्धः पृथिवीसम्पर्काघानः । न तयोः स्वाभाविकः । तत्सम्पर्काभावे तदनुपलब्धः, संपर्के सति तस्यैवोपलब्धेश्च । अतः पृथिव्यां गन्धो व्यवस्थितः । तदितराबृत्तित्वे सति तर्द्व त्तित्वं व्यवस्थितत्वम् ।