________________
वैशेषिकसूत्रवृत्तिः किञ्चिद्रव्याश्रितः, तदनाश्रितत्वे सति गुणत्वात् । यो यदनाश्रितो गुणः सः तदतिरिक्तकिञ्चिद्रव्याश्रितः यथा जलाधनाश्रितो गुणो गन्धः पृथिव्याश्रितः । यत् तत् अतिरिक्तं द्रव्यं स आकाश इति ।
अत्र "वायुसन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते'' इत्यादि सूत्रपञ्चकं वायुपदस्थाने आकाशपदं प्रक्षिप्यानुसन्धेयम् । प्रपूर्वसूत्रे "शब्दः स्पर्शवतामगुणः” इत्युक्तम् । “नात्मगुणो न मनोगुणः” इत्यनन्तर सूत्र इव न स्पर्शवद्गुणः इत्येव वक्तुं युक्तम् । तथापि 'स्पर्शवद्गुणभिन्नः आत्मगुणभिन्नश्च शब्दः परिशेषाल्लिङ्गमाकाशस्य” इति सूत्रत्रयमेकवाक्यतया योजनीयमिति ज्ञापयन् महर्षिः अनेनैव प्रकारेण आकाशसाधनं सुशकमिति तत्र स्वनिर्भरत्वं प्रकाशयति ।
७७. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥२८॥
तस्य आकाशस्य द्रव्यत्वं नित्यत्वं च वायुना वायोः द्रव्यत्वनित्यत्वसाधको यो हेतुरुक्तः तेनेत्यर्थः । व्याख्याते निरूपिते भवत इत्यर्थः । शब्दस्य संयोगादीनां गुणान्तराणां च आश्रयत्वं सिद्धयति । वायुपरमाणुवत् अद्रव्यत्वेन नित्यत्वं सिद्धयति । नहि आकाशस्य आरम्भकं समवायिकारणभूतं द्रव्यमस्ति। मानाभावात् । अतः सः अद्रव्यः । अतः कार्यत्वाभावात् नित्यत्वम् ।
७८. तत्त्वं भावेन ॥२६॥
तस्य भावः तत्त्वम् । एवं अभेदस्य एकत्वस्य च प्राचां व्यवहारः । प्रकृते एकत्वं विवक्षितम् । आकाशः एकः कथम् । तद् भावेन सतासामान्येन व्याख्यातम् । यया युक्तया सत्ताया एकत्वं साधितं तयैव युक्तया आकाशस्य एकत्वं सिद्धयतीत्यर्थः । तां युक्ति प्रकृतानुगुण्येन ऊहित्वा स्वयमेव दर्शयति ।
७६. शब्दलिङ्गाविशेषात् विशेषलिङ्गामावाच्च ॥३०॥
शब्दः सर्वत्र उपलभ्यते । अतस्तदाश्रयेण आकाशेनापि सर्वत्र वर्तितव्यम् । न च उत्तरस्यां दिशि अन्य आकाशः दक्षिणस्यामन्य इति नानात्वग्राहकं विशेषलिङ्गमस्ति । तस्मात् सत्तावत् आकाश एक एव । इदं सूत्रं कैश्चिन्न पठयत इत्याहुः ।