________________
भेरीताडने तत्र, समुद्रघोषे सति जले, दवानलदह्यमानवेणुस्फोटे अग्नी, वेणुवादने वायौ च शब्दप्रतीतेः तेषामन्यतमस्य गुणो भवितुमर्हति शब्द इति मतिः सहजेन जायेत । सा सूत्रद्वयेन निवतिता । कालस् : दिशो वा गुणः स्यादिति शङ्क'या नास्त्यवसरः । इदानीं शब्दः इति प्रतीतिस्तावत् इदानीं घटः अत्र घटः, इदानीं रूपं अत्र रूपं इत्यादिसर्वपदार्थान्तरविषयप्रतीत्यविशिष्टत्वात् कालिकदैशिकसम्बन्धेन शब्दवत्तां गोचरयति । न तु समवायेन । न च समवायेन तयोस्तद्वत्त्वशङ्काजनकं हेत्वन्तरं किमप्यस्ति । अतः तद्गुणत्वनिषेधोऽनपेक्षित इति मत्वा चरमद्रव्यद्वयगुरगत्वं निषेधति ।
७५. परन समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः ।।२।।
परत्र आत्मा यत्र अहमिति प्रतीयते शरीरप्रदेशेऽन्तः ततोऽन्यत्र । बहिर्देश इत्यर्थः । तत्र समवायात् विद्यमानत्वात् । “अयं शब्द:" "अत्र शब्दः" इति बहिर्देशसम्बन्धितयैव हि स प्रतीयते । अतः स तत्रैव वर्तते । न त्वात्मनि । अहं शब्दी मयि शब्द इति प्रतीतिविरहात् । अतो नात्मगुणः । मनोगुणोऽपि स न भवति । प्रत्यक्षत्वात् । मनो ह्यणु । तवृत्तिश्चेत् शब्दः कथं प्रत्यक्षः स्यात् । प्रत्यक्षश्च सः । नहि परमाणुवृत्ति रूपादिकं प्रत्यक्षम् ।
यद्यपि शब्दः आत्मनो मनसो वा गुण इति शङ्काया नैव कश्चन हेतुरस्ति तथाऽपि वक्ष्यमाणपरिशेषसिद्धय यदि कश्चित् वयात्यादेव तथा ब्रूयात् तन्निरसनोपयुक्तप्रबलहेतुकथनाय च इदमुक्तमिति ज्ञ यम् । यद्यप्यनेन न्यायेन दिक्कालगुणत्वनिषेधोऽपि कण्ठोक्तया कर्तुं युक्तः तथाऽपि चरमनिर्दिष्टद्रव्यद्वयगुणत्वनिषेधे कृते ततः प्रानिर्दिष्टद्रव्यगुणत्वनिषेधोऽपि स्वाभिमत इति, तत्र हेतोः सुगमत्वधिया स्वेन कण्ठोक्तिनं कृतेति च श्रोतारो भोत्स्यन्त इति महषिर्मन्यत इति मन्यामहे ।
७६. परिशेषाल्लिङ्गमाकाशस्य ॥२७॥
शब्द इत्यनुषङ्गाल्लभ्यते । शब्दः आकाशस्य लिङ्गम् । ज्ञापकम् । कथम् । परिशेषात् । अन्येषां अष्टानां द्रव्याणां तेन तेन हेतुना वर्जनानन्तरं कल्पनीयस्य अस्य एकास्वैव तदाश्रयत्वाहतया शिष्यमाणत्वात् । शब्दः पृथिव्यादिद्रव्याष्टंकव्यतिरिक्त