________________
वैशेषिकसूत्रवृत्तिः
एवं परोक्त लिङ्ग निरस्य स्वयं शब्दं तल्लिङ्ग ददन् प्रथमं तस्य वायुपर्यन्तद्रव्यचतुष्टयगुणत्वाभावे एक हेतुमाह
७३. कारणगुणपूकः कार्यगुणो दृष्टः ।।२४।।
कारणस्य यो गुणः सः पूर्वः नियतपूर्ववर्ती, कारणमिति यावत्, यस्य सः कारणगुणपूर्वकः । कारणगुणकारणक इत्यर्थः। कार्यस्य गुणः कार्यगुणः । एकैकेन्द्रियग्राह्याः भोगार्हा विशेषगुणा: रूपरसगन्धस्पर्शा विवक्षिताः। पृथिव्यादिकार्यद्रव्यवर्तिनः इमे गुणाः कारणभूतावयवस्थगुणकारणका एव । न त दतिरिक्त कारणमपेक्षन्ते । पाकजा गुणाः यद्यपि पाकर पेक्षन्ते तथाऽपि पृथिव्या यत्किञ्चिद्रूपवत्त्वं स्वाभाविकम् । पाकः रूपविशेषे हेतुः । न तु सामान्यतो रूपवत्त्वे । रूपरहितपार्थिवद्रव्यस्यानुपलब्वेः। अथवा पीलुपाकवादिनां अवयवगुणानामेव अग्निसंयोगापेक्षा । न त्ववयविगुणानाम् । अत इमे कारणान्तरनिरपेक्षा एव । कारणगुणमात्रपूर्वकाः। दृष्ट इति । न चात्र काचन विप्रतिपत्तिरस्तीति भावः । न च शब्द ईदृशः। द्रव्यान्तरसंयोगादिरूपकारणान्तरापेक्षत्वात् । कोणेन डने सति हि मेरी ध्वनति । विदलने च वेणुः । अतः शब्दः न स्पर्शवतां आद्यानां चतुर्णा भूतानां गुणः । अयं प्रयोगः । शब्दः स्पर्शवतां न गुणः, कारणगुणेतरकारणकत्वात् । यन्नैवं तन्नवम् । यथा रूपरसगन्धस्पर्शाः । इति ॥
हेत्वन्तरं प्रतिज्ञया सह प्रदर्शयति७४. कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः ।।२५।।
अन्यत् कार्य कार्यान्तरम् । तस्य अप्रादुर्भावात् अनुत्पत्तेश्च । कार्येषु यो गुणः सः अवयवगुणस्य कार्यः। अस्मात् अवयवगुणकार्यात् अवयविगुणात् कार्यान्तरं न प्रादुर्भवति । न ह्यवयविगुणः स्वाश्रये वा अन्यत्र वा स्वसजातीयं गुणान्तरं जनयति । जनयति तु शब्दः । भेरीतः कर्णपर्यन्तं वर्तमानायां शब्दपरम्परायां पूर्वपूर्वस्य शब्दस्य उत्तरोत्तरशब्दजनकत्वात् । अतः स्पर्शवद्गुणवैधात् शब्दः न स्पर्शवतां गुणः। प्रयोगश्च । शब्दः न स्पर्शवतां गुणः, सजातीयकार्यान्तरजनकत्वात् । यन्नवं तन्न वम् । यथा रूपादय इति । चकारः पूर्वहेतुं समुच्चिन्वन् तत्रापि इयमेव प्रतिज्ञेति ज्ञापयति ।