________________
३२
तत् उक्त निष्क्रमणं प्रवेशनं च अलिङ्ग दुष्टं लिङ्गम् । आकाशसाधनाक्षममित्यर्थः । कुतः । कर्मणः एकद्रव्यत्वात् । एकमेव द्रव्यं समवायिकारणतया आश्रयभूतं यस्य तत्त्वात् । कर्म निष्क्रमणादिरूपं एकस्मिन्नेव द्रव्ये समवैति । न संयोगादिवत् द्रव्यद्वये । तत्र यः पुरुषः निष्क्रामति प्रविशति च तस्मिन् तत्कर्म वर्तत इति सर्वसम्मतं, दरपह्नवम् । तथा सति तदाश्रयतया द्रव्यान्तरापेक्षा नैवास्ति । कथं द्रव्यान्तरं सिद्ध घत् ।
ननु आश्रयतया द्रव्यान्तरापेक्षा नास्तीति सत्यमेतत् । तथाऽपि निमित्तकारणतया तदपेक्षाऽस्त्येव । पृथिव्यादीनि द्रव्याणि अवकाशं न ददति । तेन निष्क्रमणादिकं न जायते । अतः अवकाशदानक्षम द्रव्यान्तरमपेक्ष्यते । तदाकाशमिति भवत्येव निष्क्रमणादिकमाकाशस्य लिङ्गमित्यत्राह
७१. कारणानुक्लुप्तिवैधाच्च ।।२२।।
कारणस्य अनुक्लृप्तिः अवधारणम् तस्य वैधात् विरुद्धधर्मवत्त्वात् । इदं कारणमित्यवधारणे अनुकूलः नियामकः धर्मः अन्वयव्य तिरेकवत्त्वम् । अस्मिन् सति कायं भवति । असति न भवतीति ! निष्क्रमणादिकं प्रति आकाशस्य तन्नास्ति । आकाशस्य अवर्जनीयतया सन्निधिः । न तु कार्यनिष्पत्तये अपेक्षितत्वात् । अतोऽन्वयोनास्ति । आकाशस्य विभुत्वेन नित्यत्वाच्च क्वचिदपि कदाचिदपि तदभावो नास्तीति व्यतिरेकोऽपि नास्ति । एवं कारणत्वावधारणोपयुक्त यत् अन्वयव्यतिरेकवत्त्वं तद्विरुद्धस्य तदभाववत्त्वस्यैव आकाशे विद्यमानत्वात् निष्क्रमणादेः निमित्तकारणमपि न भवितुमर्हतीति न तदपेक्षावशेनापि तदाकाशं साधयितुमलमित्यर्थः ॥
ननु द्वारदेशे तदवच्छिन्नाकाशोऽस्ति । तस्मिन् सति निष्क्रमणादि मवति । कुड्यादौ तदभावे न भवतीति एवान्वयतिरेको, इति चेत् अत्राह
७२. संयोगादभावः कर्मणः॥२३॥
कुडघमभिगच्छन् पुरुषः तेन संयोगं प्राप्नोति । ततः परं गन्तुं न शक्नोति । तेन निष्क्रमणाभावः । एवं च मुर्तद्रव्यसंयोगः निष्क्रमणप्रतिबन्धकः । तदभावात् द्वारदेशे निष्क्रमणं भवतीत्येवमुपपत्तो नाकाशकल्पनमावश्यकम् ॥