________________
वैशेषिकसूत्रवृत्तिः
अत्र अनभिमति व्यञ्जयन शास्त्रकारः स्वमतमाह६७. संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम ॥१८॥
आगमोऽपि प्राक्सिद्धाभिधेयाभिधाननिबन्ध एव । अतस्तत्रापि मूलं वक्तव्यम् । तदुच्यते । वेदस्तावत् प्रमाणम् । शिष्टस्तथा परिगृहीतत्वात् । तद्विहितानां कर्मणां स.फल्यदर्शनाच्च । दोषमूलत्वानुपलम्भाच्च। तत्र वायुत्वावच्छिन्नवाचितया, तत्संज्ञात्वेन, वायुशब्दप्रयोगो दृश्यते। तल्लिङ्ग, अस्मदपेक्षया अतिशयितशक्तिमन्तः पुरुषा अासन्, ये अस्मदिन्द्रियागोचरानपि अर्थान् साक्षात्कृत्य संज्ञां चरित्यत्र ।
संज्ञाकर्म अतीन्द्रियाणामपि अर्थानां संज्ञाकरणं पूर्ववृत्तं, अस्मदिति पञ्चमी अस्मदपेक्षया विशिष्टानां विलक्षणशक्तिमतां, तथाविधाः पुरुषा प्रासन्नित्य स्मिन् विपये लिङ्गमिति सूत्रस्याक्षरार्थः । ते वायोः वायुरिति संज्ञां चक्रुः । अतो न काचिदनुपपत्तिरिति भावः । तुकारः पूर्वमतानङ्गीकारसूचकः ॥
६८, प्रत्यक्षप्रवृ त्तत्वात् संज्ञाकर्मणः ॥१६॥
प्रत्यक्षेण न स्वनुमानेन भ्रमेण वा प्रवृत्तत्वात् निष्पन्नत्वात् संज्ञाकर्मणः सर्वेषां वस्तूनां नामकल्पनस्य । वाय्वाद्यतीन्द्रियवस्तुवाचकस ज्ञाकल्पनं अस्मदपेक्षया विशिष्टा प्रासन्नित्यत्र लिङ्गं भवतीति पूर्वेणान्वयः ॥
अवसितं वायुप्रकरणम् । अथ आकाशप्रकरणम् तत्र अप्रत्यक्षस्य आकाशस्य सिद्धौ साधनं परेषामभिमतं दर्शयति--
६९. निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ॥२०॥
गृहान्निष्कामति, गृहं प्रविशति, इति निष्क्रमणं प्रवेशनं च प्रसिद्धम् । तत्र यत्र भित्तिरस्ति तत्र तन्न सम्भवति । अतः पृथिब्यादिभ्यः मूर्तद्रव्यादिभ्यः अतिरिक्त किञ्चिद् द्रव्यं तत्कारणमस्तीत्यभ्युपगन्तव्यम् । तद् द्रव्यमाकाश इति निष्क्रमणं प्रवेशनं च प्राकाशस्य लिङ्गमिति ।
इदं निराकरोति७०. तदलिङ्गमेकद्रव्यत्वात् कर्मणः ॥२१॥