________________
कर्षे प्रत्यक्षज्ञानोत्पत्तिकारणे सत्याप वायोः प्रत्यक्षं न जायते । रूपाभावात् । एवं वायोरदृष्टलिङ्गत्ववादिना भवता तस्याप्रत्यक्षत्वमभ्युपगतम् । अप्रत्यक्षस्य तस्य "अयं वायु"रिति संज्ञाकरणायोगात् वायुरिति विशेषाभिधानं अप्रामाणिकम् । गौः प्रत्यक्षः । तं दृष्टवान् कश्चित् "अयं गौरिति व्यवहर्तव्यः' इति सङ्केतमकरोदिति युज्यते । न तु अप्रत्यक्षे पदार्थे । अभिधेये वस्तुनि अदृष्टे अभिधानाकांक्षाविरहात् ।
नन्वनुमानावगतस्यार्थस्य अमिधानाकाङ्क्षा किं न घटत इत्यत्राह६५. सामान्यतोदृष्टाच्चाविशेषः ॥ १६ ॥
अनुमापकं लिङ्गं द्विविधं-विशेषतो दृष्टं सामान्यतो दृष्टं चेति । पक्षे तत्सजातीये वा धर्मिणि साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणे सति तत् साधनं विशेषतो दृष्टम् । यथा विषामित्वादि । यत्र न तथा तत्रत्यं साधनं सामान्यतो दृष्टम् । यथा सूर्ये गत्यनुमाने पूर्वमन्यत्र दृष्टस्य पश्चादन्यत्र दर्शनम् । प्रकृतं स्पर्शरूपं वायुलिङ्ग च सामान्यतो दृष्टमेव । यत्र स्पर्शः तत्र वायुरिति विशिष्य व्याप्तिग्रहणाभावात् । तेन अनेन लिङ्गेन जायमानायां बुद्धौ कश्चिदाश्रयोऽस्तीति सामान्यमेव विषयः । न तु वायुत्वरूपो विशेषः। अगृहीते चास्मिन् विशेषे तदभिधायितया पदविशेषकल्पनमशक्यम् । सामान्यमेव गृह्यते । न तु विशेष इति सूत्रार्थः। ततो जायमानः प्रत्ययः अविशेषः विषयतया वायुत्वरूपविशेषरहित एवेति वा । तस्मिन् विशेषाभाव इति वा।
तहि वायुरिति अनादिः सार्वत्रिको व्यवहारः कथम् । तत्र हि उपपत्तिर्वक्तव्या, इत्यत्र स्वमतमाह आक्षेप्ता
६६. तस्मादागमिकम् ॥१७॥
आगमे वेदे भवं आगमिकम् । लिङ्गमिति व्यवधानेऽप्यनुवर्तते । लिङ्ग ज्ञापकम् । यस्मात् विशिष्य वायुत्वेन वाय्ववगतौ वा तदभिधायित्वेन वायुपदसिद्धौ वा प्रत्यक्ष वा अनुमानं वा न निदानं भवितुमर्हति, तस्मात् आगमे तत्प्रतिपादकं वाक्यमेव तन्मूलमित्यर्थः । यद्वा वायुत्वावच्छिन्नं द्रव्यमस्तीति तदभिधायि वायुपदमिति च आगमादेवावगत मित्यर्थः॥