________________
वैशेषिकसूत्रवृत्तिः
६१. क्रियावत्त्वाद् गुणवत्त्वाच्च ॥ १२ ॥
वानरूपक्रियावत्त्वात् संयोगविभागपरत्वापरत्वादिबहुगुणान्तरवत्त्वाच्च वायुव्यम् । अत्रापि स्पर्शत रबहुधर्मवत्त्वप्रतिपादने तात्पर्यम् । गुणवत्त्वस्य प्रथमाभिघाने युक्तऽपि गुणशब्देन क्रियाजन्यसंयोगादिकं विवक्षितमिति ज्ञापन य क्रियावत्त्वस्य प्रथमाभिधानम् ।
६२. अद्रव्यत्वेन नित्यत्वमुक्तम् ॥ १३॥
प्रपूर्वसूत्रे परमाणुवाचकतया अद्रव्यशब्दः प्रयुक्तः । तस्य समवायिकारणरहितं द्रव्यमित्यर्थः। कारणराहित्ये च कार्यत्वाभावात् नित्यत्वं वायुपरमाणुनामुक्त भवतीत्यर्थः । वायुद्विविधः नित्योऽनित्यश्चेति । नित्यः परमाणुरूपः अनित्यः कार्यरूप इति वायुविभागोऽत्राभिप्रेतः।
६३. वायोर्वायुसम्मूर्छनं नानात्वलिङ्गम् ॥ १४ ॥
ननु स्पर्शलिङ्गेन तस्याश्रयः कश्चिदस्तीति, स द्रव्यमिति काममनुमानेन सिद्धयतु । सोऽवयवीति, स परमाणुभिरारब्ध इति कथं सिद्धयति । स एको निरवयव इति किं न स्यात्, इत्यत्र आह ।
___ वायोः वायुकर्मकं, वायुसम्मूर्छनं वायुकत कोऽभिघातः वायुकर्तृकः वायुकर्मकोऽभिघातो वा वायोः नानात्वे मिथो भेदे, अनेकत्वे लिङ्ग ज्ञापकम् । प्राच्यां दिशि एको वायुः प्रतीच्यामपरः । उमावपि वेगेन वान्तो हि परस्परमभिहत इति तृणपांसुपर्णादीनामुत्पतनेन असंदिग्धं जानीमः। तेनानेकत्वं निश्चीयते । तत्र एककोऽपि एकोऽवयवी । अवयवी चावयवारब्ध इति युक्तः पूर्वकृतो निर्णयः ।
___ ननु स्पर्शलिङ्गेन तदाश्रयः सिद्धयतु। स पृथिव्यादिव्यतिरिक्त इत्यपि काममस्तु । वायुरिति तस्य विशेषतोऽभिधानं तु कथमित्याक्षिपति६४. वायुसन्निकर्षे प्रत्यक्षाभावात, दृष्टं लिङ्ग न विद्यते ॥ १५ ॥
स्पर्शलिङ्गं विषाणित्वादिलिङ्गवत् न दृष्टं लिङ्गमिति भवतैवोक्तम् । कस्मात् तत् । वायौ वाति सति त्वगिन्द्रियं तेन सन्निकृष्यते । एवं विषयेन्द्रियंस नि