________________
६४
यद् द्रव्यं स एव वायुः । एवं स्पर्शः वायोलिङ्गम् । अत्र पूर्व “गोत्वे” इतिवत् “वायौं" इति युक्त वक्तुम् । तथापि षष्ठीसप्तम्योरविशेष इति ज्ञापनायेह षष्ठीति ज्ञेयम् । ननु अाश्रयभूतद्रव्यविरहे गुणोपलम्भानुपपत्ते: तादृशं द्रव्यं किञ्चन सिध्यतु । स वायुरेवेति कथमित्यत्राह
५९. न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः ॥१०॥
नहि स स्पर्शः पृथिव्याः अपां तेजसो वा । इमानि हि भूतानि प्रत्यक्षाणि । यद्येषां अन्यतमं तद् द्रव्यं तर्हि प्रत्यक्षं दृश्येत । न च दृश्यते । न च स आकाशः । तस्य स्पर्शशून्यत्वात् । पृथिव्यादीनां तु स्पर्शाश्रयत्वं संभवति । तथापि तत्र स्थितिर्न सम्भवति । प्रदर्शनात् । स्थितौ हि दर्शनं अवश्यमभविष्यत् । रूपिद्रव्यत्वात् । अतो भूतान्तरेभ्यो व्यतिरेके सिद्धे स वायुरिति निश्चीयते । परं अस्य स्पर्शरूपस्य वायुलिङ्गस्य गोत्वलिङ्गेभ्यः विषाणित्वादिभ्यः अस्ति कश्चन विशेषः । गोत्वेन व्याप्तिमत्तया प्रत्यक्षं गोषु दृष्टानि विषाणित्वादीनि लिङ्गानि । तस्माद् वृष्ट लङ्गं गोत्वम् । स्पर्शस्तु वायुना सह तथा न दृष्टः । वायोः नीरूपस्याप्रत्यक्षत्वात् । तथापि स्पर्शो गुणः । अतः स आश्रयं द्रव्यविशेषं विना न भविष्यतीति तत्र भवितव्यं केनचिद् द्रव्येण । तद् द्रव्यं न पृथिवी, नापः, न तेजः। अनुपलब्धः। अतः परिशेषाद् वायुरिति स्पर्शो वायोलिङ्गं भवत्येव । परं तु अदृष्टं लिङ्गम् । न तु विषारिणत्वादिवत् दृष्टं, इति विशेषः । अत्र वायोरदृष्टं लिङ्गमिति वक्तुमौचित्ये सत्यपि अदृष्टलिङ्गो वायुरित्युक्तिः साध्यत्वेन तस्य प्राधान्यात् । उत्तरत्रानुषङ्गसौकर्याच्चेति बोध्यम् ।
६.. अद्रव्यवत्त्वेन द्रव्यम् ॥ ११॥
न विद्यते द्रव्यं प्रारम्भकावयवत्वेन येषां ते अद्रव्याः चरमावयवाः परमाणवः । ते अस्य सन्ति प्रारम्भकावयत्ववेन, ममवायिकारणत्वेन, इति अद्रव्यवान् । तस्य भावः तेन । बायुरिति अनुवर्तते । अवयवकार्यभूतावयवित्वेन वायोः स्पर्शलिङ्गेनानुमीयमानस्य द्रव्यत्वं सिध्यति । न हि द्रव्येतरपदार्थस्य अवयवित्वं संभवतोति । यद्यपि स्पर्शरूपगुणवत्त्वेनैव द्रव्यत्वं सिद्धं, तथापि कण्ठोक्तया तत्साधनब्याजेन तस्य अवयवित्वं अत एवानित्यत्वं चात्र प्रतिपिपादयिषतीति ज्ञेयम् ।