________________
वैशेषिकसूत्रवृत्तिः
भूतानां साधर्म्यवैधयंप्रकरणं समाप्नम् । आद्यानि त्रीणि भूतानि प्रत्यक्षाणि । रूपवत्त्वात् । वाय्वाकाशौ अप्रत्यक्षी, रूपरहितत्वात् । अत इमो अनुमानगम्यौ । प्रत्यक्षमित्र अनुमानमपि हि वस्तु सिद्धौ प्रमाणन् । तत्र वायौ अनुमानं प्रदर्शयिष्यन् तत्र वक्ष्यमाणविशेषसुग्रहत्वाय प्रथमं ततो बिलक्षणं किञ्चिदनुमानं दर्णयति । ५७. विषाणी ककुद्मान प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं
लिङ्गम् ॥८॥ विषाणी शृङ्गवान् । ककुत् वृषभाणां गलपृष्ठमन्धौ उद्गतो भागः । तद्वान् ककुद्यान् । प्रान्ते वालधिः प्रकृप्टोऽन्तः प्रान्तः शरीरस्य अधोभागः यो भूमि स्पृशतीव । तत्र तदवधि प्रलम्बः वालधिः पुच्छं यस्य सः प्रलम्बतमवालः इत्यर्थः । नहि गोरिव अन्येषां पशूनां तथा प्रलम्बो बलः । सास्ना बालकम्बलः । तद्वान्, इति एतैः शब्दः गम्यं यत् तत् । गोत्वे विशेषसामान्ये साध्ये । इदमुपलक्षणं अश्व बरादिभेदस्य । दृष्टं साध्येन सह पक्षे विद्यमानतया प्रत्यक्षविषयीकृतम् । लिङ्गं हेतुः ।
गां अश्व च असकृद् दृष्टवान् पुरुषः विपाणित्वप्रभृतीनां गोत्वेन अश्वभेदेन च व्याप्ति गृह्णाति । ततः अल्पकाशे क्वचित् स्थले मृगं कञ्चन पश्यन् सन्दिग्धे गौर्वा अयं, अन्यो वेति । ततः सावधानं पश्यन् विषाणे दृष्टे नायमश्वः विषाणित्वादित्यवधारयति । ककुदर्शने अयं गौः नाश्व ककृमत्त्वात् इति निश्चिनोनि । एवं प्रान्तेवालयित्वमालावत्वदर्शनेऽपि, इति द्रष्टव्यम् । इत्थं विधाणित्वादी नि अश्वादिभेदे गोत्वे च लिङ्गानि भवन्ति । प्रत्यक्षेण गवि व्याप्तिग्रहणाच्च दृष्टलिङ्गानि भवन्ति ।
५८. स्वशंश्च वायोः ॥ ६॥
लिङ्गमित्यनुवर्तते । स्पर्शश्च लिङ्गम् । था विपाणित्वादिकं तथा स्पर्शोऽपि लिङ्गम् अनुमितिहेतुः । तत् सर्वं गोत्वस्य लिङ्गम् । स्पर्शः कस्य । वायोः चतुर्थस्य भुतस्य पृथिव्यादिवदप्रत्यक्षस्य । रथ्यायां स्पर्श उपलभ्यते । तेनानुमीयते अत्र केनचिद् द्रव्येण भवितव्यम् । स्पर्शो हि गुणः । न चायं गुणः द्रव्यं विना वर्तत इति । तदाश्रयो