________________
५४. त आकाशे न विद्यन्ते ।। ५ ॥
एते चत्वारोपि गुणाः आकाशे पञ्चमे भूते न सन्ति । एभिः पञ्चभिः सूत्रः पञ्चानां भूतानां मिथः साधर्म्यवैधयें उक्त भवतः। उक्तगुणचतुष्टयशून्यत्वं आकाशस्य पृथिव्यादिभ्यश्चतुर्यो वैधर्म्यम् । स्पर्शवत्त्वं चतुर्णा मिथः साधर्म्यम् । रूपवत्त्वं त्रयाणां मिथः साधर्म्यम् । वायोर्वधर्म्य च । रसवत्त्वं द्वयोः मिथः साधर्म्यम् । तेजोवायुभ्यां वैधयं च । गन्धः पृथिव्या वैधर्म्यमिति । ५५. सर्जितुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः
सामान्यम् ॥ ६॥ "आपो द्रवाः स्निग्धाश्च" इति द्रवत्वं स्नेहश्च अपां इतरेभ्यो वैधय॑म् । पृथिव्या गन्धवदिति ज्ञापितम् । तत्र द्रवत्वे कञ्चन विशेष अनेन अनन्तरेण च सूत्रणाह।
सपिः घृतम् । जतु लाक्षा। मधूच्छिष्टं मध्वपूपः । इमानि द्रव्याणि पृथिवीत्वजातिमन्ति, पृथिवीविकारभूतानि । एष्वपि द्रवत्वमस्ति । परं तु तत् जल इव न सांसिद्धिकम् न नैसर्गिकमित्यर्थः । अपि तु अग्निसंयोगरूपनिमित्तात् जायमानं नैमित्तिकम् । एतेन द्रवत्वं द्विविधं, सासिद्धिकं नैमित्तिकमिति । एवं विशेषसत्त्वेऽपि सामान्यतो द्रवत्वं सपिरादिरूपायाः पृथिव्याः अद्भिः सामान्यम्, सांसिद्धिकद्रवत्वं तु अपां इतरेभ्यो वैधयं पूर्वमभिप्रेतमिति ज्ञापितं भवति ।
५६. पुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वद्भिः
सामान्यम् ॥७॥
अपुप्रभृतयो लोहविशेषाः प्रसिद्धाः । अत्र लोह इति अयोरूपो लोहविशेषो विवक्षितः । ताम्रमपि। एतानि द्रव्याणि तैजसानि । एष्वपि अग्निसंपर्कनिमित्तक द्रवत्वमस्ति । अतः पूर्ववत् सामान्यतो गृहीतं द्रवत्वं एषां तेजोद्रव्याणां सपिःप्रभृतिभिः पार्थिवद्रव्यः साधर्म्यम् । सांसिद्धिकद्रवत्वमेव तु अपां इतरेभ्यो वैधयंमिति ।