________________
अथ द्वितीयाध्याये प्रथममाह्निकम् द्रव्यगुणकर्मसामान्यानि सामान्यतो निरूपितानि । अथ विशेषतो निरूपणमारभते । तत्र प्रथमं द्रव्यविशेषनिरूपणम् ।
५०. रूपरसगन्धस्पर्शवती पृथिवी ।।१।।
रूप रसः स्पर्शः गन्धः इत्येतेश्चतुर्भिगुणैर्युक्ता पृथिवी । एते चत्वारो गुणाः शब्देन सह पञ्च पञ्चानां भूतानां गुणाः। तत्र आकाशेतरभूतचतुष्टयवृत्तित्वेन एते चत्वारो गुणाः एकराशीभवन्ति । अतः पूर्व गुणनिर्देशे अत्र च एषां समासकरणम् । तत्र भूतनिर्देशकमेण गन्धरसरूपस्पर्शा इति, अथवा चतुस्त्रिद्वयेकभूतवृत्तित्त्वानुरोधेन स्पर्शरूपरसगन्धा इति, एतद्वती पृथिवीति च एषां गुणानां निर्देश उचितः । तथापि इन्द्रियेषु चक्ष षः प्रधानत्वात् तद्ग्राह्यस्य रूपस्य प्राथम्यम् । द्रव्यत्रयप्रत्यक्षत्वे हेतुत्वाच्चैवम् । तदानन्तर्य द्रव्यद्वयवतिनो रसस्य । एतदानन्तयं एकभूतमात्रवर्तिनो गन्धस्य । भूतचतुष्टयवतिष्नो स्वस्थानाद् भ्रष्टस्य स्पर्शस्यान्ते निवेशः ।
५१. रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च ॥२॥ उक्तेषु चतुर्यु गन्धवर्ज अन्ये त्रयो गुणाः अपाम् । द्रवत्वं स्नेह इति अन्यौ च
द्वौ गुणौ।
५२. तेजो रूपस्पर्शवत॥३॥
रसगन्धवजं द्वौ गुणौ तेजसः । रूपस्पशौं । पूर्वसूत्रवत् रूपस्पर्शवत् तेज इति युक्तं वक्तुम् । तथाऽपि गुणसंख्याया अल्पीभावज्ञापनाय क्रमान्तराश्रयणम् । एवमुतरत्रापि।
५३. वायुः स्पर्शवान् ॥ ४॥ चतुर्युगुणेषु स्पर्श एको वायोः, न रूपम् । न रसः, न गन्धः ।