Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 64
________________ बंशेषिकसूत्रवृत्तिः ११०. न चासिद विकारात् ॥३०॥ अनित्यत्वे हेतुतया निर्दिष्टं कारणवत्त्वं न च नैव असिद्धं पक्षे असत्त्वरूपासिद्धिदोषवत् । कुतः। विकारात् । शब्दे हि अवस्थान्तररूपो विकारो भवति । यथा-"दघि" इति स्थितः इकारः "दध्यत्र” इति यकाररूपेण विक्रियते । न च भकार्यस्य विकारो भवेत् । तस्मात् कार्यः, उत्पत्तिमान् शब्दः। अत एव कारणवांश्च । अतो नासिद्धिहेतोः॥ ____ न केवलं साधकसत्त्वात् कार्यत्वं शब्दस्य । अपितु अभिव्यक्तौ बाधकसत्वाच्चेस्याह १११. अभिव्यक्ती दोषात ॥३१॥ यद्युच्चारणात् प्रागपि शब्दोऽस्ति तर्हि कुतो नोपलभ्यते । तिरोधानादिति चेत् केन । किञ्चिदस्ति, यत् तिरोदधाति, इति चेत् यद्यस्ति उपलभ्येत न चोपलभ्यते । उच्चारणात् प्राक् शब्दस्य सत्त्वकल्पना, अनुपलभ्यमानतद्धेतुभूतवस्तुकल्पना, इति अप्रामाणिककल्पनापरम्परारूपो दोष आपतति । तस्मान्नाभिव्यक्तिः शब्दस्य । अपितु उत्पत्तिरेव । अतः सिद्धं शब्दस्य कार्यत्वम् । ११२. संयोगाद्विभागाच्छब्दाच्च शब्दनिष्पत्तिः ॥३२॥ भेरीदण्डसंयोगात् शब्दो जायते। तथा वेणुदलविभागात् । प्राभ्यां शब्दाभ्यां च तदुत्तरौ शब्दौ । एवं त्रेधा शब्दो जायते । त्रिविधोऽप्ययं ध्वन्यात्मकः । अयं घटपटादिवत् स्वकारणादुत्पद्यत इति प्रत्यक्षमसन्दिग्धं पश्यामः । नात्र व्यङ्ग्यत्वशङ्काया मनागप्यवसरः । एवमेव वर्णात्मकशब्देऽपि शङ्का न युज्यत इति भावः ॥ ११३. लिङ्गाच्चानित्यः ॥३३।। वेदादपि शब्दस्यानित्यत्वमध्यवसेयमित्याह । वेदस्यापि अनुमानविषयंव प्रमाणत्वात् "बुद्धिपूर्वा वाक्यकृतिवेंदे" इति वक्ष्यमाणरीत्या वेदस्यानुमितिविशेषे हेतुत्वाच्च लिङ्गशब्देन तदभिधानम् । न केवलं उक्ताभिर्युक्तिभिः शब्दोऽनित्यः । अपि तु वेदादपि इति चकारार्थः । अनित्य इत्यस्य धर्मी शब्द इति प्रकरणाल्लभ्यते । फा --११

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154