Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 63
________________ उत्तरोत्तरमेवम् । एवं यतः पूर्वपूर्व नाशः कर्मपरम्परायामिव शब्दपरम्परायाम स्ति अतः शब्दः कर्मेति शङ्क्येत । तत्रोच्यते । गुणस्य सतः गुणभूतस्यैव शब्दस्य अपवर्ग: पूर्वपूर्वस्य नाशः कर्मभिः सामान्यसाधारणधर्मवत्त्वम् ननु कर्मत्वापादको हेतुः । न हि बलवता प्रमाणेन भिन्नजातीयत्वेन अवघृतानां पदार्थानां साधर्म्यमात्रेण एकजातीयत्वं भवतीति भावः । शब्दगुणप्रकरणं समाप्तम् । अथ तदनित्यत्वप्रकरणम् । तत्र प्रथमं तस्य श्रवणपूर्वापरकालसत्त्वे प्रमाणा भावमाह-- १०७. सतो लिङ्गाभावात ॥२७॥ सतः श्रवणकालात् पूर्वमनन्तरं च सतः विद्यमानस्य शब्दस्य लिङ्ग ज्ञापक प्रमाणं तस्याभावात् । अयमनित्य इत्युपर्यन्वयः । नित्यो हि त्रिकालवर्ती । श्रवणकालात्पूर्वमनन्तरं चासन् कथं नित्यः स्यात् । तत्र असत्वं कथमिति चेत् सत्वावेदकप्रमाणाभावात् । नहि अप्रमाणकं किञ्चिदभ्युपगमर्महति । १०८. नित्यवैधात् ॥२८॥ अनित्यत्वे प्रमाणमाह । नित्यात् पदार्थात् वैधात् विलक्षणत्वात् । तदवृत्तिधर्मत्वादित्यर्थः । नित्यो हि सर्वकालवर्ती। अयं तु कादाचित्कः अल्पकालवर्ती द्विक्षणावस्थायी अतो न नित्यः ।। १०६. अनित्यश्चायं कारणतः ॥२६॥ अयं शब्दः कारणतः तज्जनकोच्चारणादिकारणवत्त्वाच्चानित्यः उत्पत्तिविनाशवान् । अनित्यश्च । न परं गुणः अनित्यश्च त्यपि चकारयोजना । "सदकारणवन्नित्यम्'' इति नित्यलक्षणं वक्ष्यति । तत्र प्रपूर्वसूत्रोक्तः सत्त्वाभावः गतसूत्रोक्तः अकारणवत्त्वाभावश्च मध्ये "नित्यत्ववैधात्" इत्यनेनाभिप्रताविति सुवचम् ॥ ननु उच्चारणादिकं न शब्दस्योत्पत्तिकारणम् । शब्दस्य कार्यत्वे सिद्ध हि तत् तत्र कारणमिति गृह्णीयाम । शब्दो नित्यः । उच्चारणादिकममिव्यञ्जकमिति किं न स्यात् । अत्राह

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154