Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 68
________________ अथ तृतीयेऽध्याये प्रथममाह्निकम् ११६. प्रसिद्धा इन्द्रियार्थाः ॥ १ ॥ इन्द्रियाणां अर्थाः इन्द्रियकरणकभोगविषयाः। भोग्यपदार्था इति यावत् । ते च पञ्चभूतगुणाः रूपरसगन्धस्पर्शशब्दाः पञ्च । ते प्रसिद्धाः । प्रामाणिकतया स्थापिता इति भावः । अनेनातीताध्यायद्वयप्रधानप्रतिपाद्यार्थ उक्तः ।। ततः किमित्यत्राह :१२०. इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः ॥ २ ॥ इन्द्रियार्थप्रसिद्धिः तात्त्विकतया स्थापिता इन्द्रियार्था इत्यत्र तात्पर्यम् । इन्द्रियार्थेभ्योऽर्थान्तरस्य, भोगोपकरणभूतेन्द्रियेभ्यः भोग्येभ्यो रूपरसादिभ्यश्च, अर्थान्तरस्य-व्यतिरिक्तपदार्थस्य, आत्मन इति भावः । हेतुः ज्ञापकं प्रमाणम् । भोगकरणानि इन्द्रियाणि । भोग्या रूपादयः। इन्द्रियः करणैः रूपरसादीन यो भुङक्ते तेन केन चिद्भवितव्यम् । यः सः स आत्मेति आत्मसाधकोऽयं हेतुरित्यर्थः। एतेन कालदिनिरूपणानन्तरं क्रमप्राप्तात्मनिरूपण मिह क्रियते, इति ज्ञापितम् । यद्यपि प्रसिद्धिरिति व्याप्तिग्रह उच्यते तथाऽपि प्रकृते सोऽर्थो न विवक्षितः ।। इमं पक्षं दूषयति :१२१. सोऽनपदेशः ॥ ३ ॥ सः आत्मसाधकतया उक्तः इन्द्रियार्थरूपो हेतुः अनपदेशः, अपदेशः हेतुः तद्भिन्नः हेत्वाभासः । अर्थाः प्रत्यक्षाः । तद्ग्राहकतया इन्द्रियाण्य पि सिद्धानि । एतैरनिरंतु कथं सिद्धयेत् । न हि तेनैतानि सम्बद्धानि दृष्टानि । स्वसत्तायामितरापेक्षाणि वा । भोक्तारं विना मोगकरणानि भोगविषयाश्च कस्य भोगं जनयन्तीति चेत्, इन्द्रियाणामेव वा, शरीरस्य वा। एतेभ्यो व्यतिरिक्तः कश्चित् भोक्ते ति तु कथमेतेभ्योऽवगच्छेम । तस्मादयमहेतुरिति ॥ कस्तहि हेतुरिति चेत् ज्ञानमिति दर्शयन्नाह :-- १२२. कारणाज्ञानात् ॥ ४ ॥ अयं घटः, अयं पटः इति ज्ञानं तावत् तत्तद्विषयावगाहि प्रसिद्धम् । अहं जानामि स जानातीति नियमेन किञ्चिदाश्रितत्वप्रतीतेः तस्य गुणत्वं आश्रयसापेक्षत्वं

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154