________________
अथ तृतीयेऽध्याये
प्रथममाह्निकम् ११६. प्रसिद्धा इन्द्रियार्थाः ॥ १ ॥
इन्द्रियाणां अर्थाः इन्द्रियकरणकभोगविषयाः। भोग्यपदार्था इति यावत् । ते च पञ्चभूतगुणाः रूपरसगन्धस्पर्शशब्दाः पञ्च । ते प्रसिद्धाः । प्रामाणिकतया स्थापिता इति भावः । अनेनातीताध्यायद्वयप्रधानप्रतिपाद्यार्थ उक्तः ।।
ततः किमित्यत्राह :१२०. इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः ॥ २ ॥
इन्द्रियार्थप्रसिद्धिः तात्त्विकतया स्थापिता इन्द्रियार्था इत्यत्र तात्पर्यम् । इन्द्रियार्थेभ्योऽर्थान्तरस्य, भोगोपकरणभूतेन्द्रियेभ्यः भोग्येभ्यो रूपरसादिभ्यश्च, अर्थान्तरस्य-व्यतिरिक्तपदार्थस्य, आत्मन इति भावः । हेतुः ज्ञापकं प्रमाणम् । भोगकरणानि इन्द्रियाणि । भोग्या रूपादयः। इन्द्रियः करणैः रूपरसादीन यो भुङक्ते तेन केन चिद्भवितव्यम् । यः सः स आत्मेति आत्मसाधकोऽयं हेतुरित्यर्थः। एतेन कालदिनिरूपणानन्तरं क्रमप्राप्तात्मनिरूपण मिह क्रियते, इति ज्ञापितम् । यद्यपि प्रसिद्धिरिति व्याप्तिग्रह उच्यते तथाऽपि प्रकृते सोऽर्थो न विवक्षितः ।।
इमं पक्षं दूषयति :१२१. सोऽनपदेशः ॥ ३ ॥
सः आत्मसाधकतया उक्तः इन्द्रियार्थरूपो हेतुः अनपदेशः, अपदेशः हेतुः तद्भिन्नः हेत्वाभासः । अर्थाः प्रत्यक्षाः । तद्ग्राहकतया इन्द्रियाण्य पि सिद्धानि । एतैरनिरंतु कथं सिद्धयेत् । न हि तेनैतानि सम्बद्धानि दृष्टानि । स्वसत्तायामितरापेक्षाणि वा । भोक्तारं विना मोगकरणानि भोगविषयाश्च कस्य भोगं जनयन्तीति चेत्, इन्द्रियाणामेव वा, शरीरस्य वा। एतेभ्यो व्यतिरिक्तः कश्चित् भोक्ते ति तु कथमेतेभ्योऽवगच्छेम । तस्मादयमहेतुरिति ॥
कस्तहि हेतुरिति चेत् ज्ञानमिति दर्शयन्नाह :-- १२२. कारणाज्ञानात् ॥ ४ ॥
अयं घटः, अयं पटः इति ज्ञानं तावत् तत्तद्विषयावगाहि प्रसिद्धम् । अहं जानामि स जानातीति नियमेन किञ्चिदाश्रितत्वप्रतीतेः तस्य गुणत्वं आश्रयसापेक्षत्वं