________________
वैशेषिकसूत्रवृत्ती च सिद्धम् । स आश्रयः क इति विमर्श इन्द्रियशरीरादिषु क्लप्तद्रव्येष्वन्यतमं वा अतिरिक्त वा किञ्चिदिति कोटिद्वयं स्फुरति । तत्र पूर्वा कोटिर्नोपपद्यते । इन्द्रियशरीरादिकं हि पाञ्चभौतिक कार्यम् । तस्य चेद् ज्ञानं गुणः तहि तेन कारणगुणपूर्वकेण भाव्यम् रूपादिवत् । न च तत्कारणेषु परमाणुषु ज्ञानमस्तीत्यत्र किञ्चन प्रमाणमस्ति । अतः परमाणूनां कारणानां अज्ञानात् ज्ञानाभावात् न कार्याणां शरीरेन्द्रियादीनां ज्ञानं गुणः ।
ननु, शरीरादेरेवेदं ज्ञानं गुणः । कार्ये विद्यमानोऽयं कारणेष्वपि सन्तमनुमापयतीत्यत्राह :
१२३. कार्यषु ज्ञानात् ॥ ५ ॥
कार्येषु ज्ञानम् न तु कार्याणाम् । कार्यविषयकं ज्ञानं भवति । न तु कार्याश्रितम् । "अस्तीन्द्रियं, इदं शरीरं" इत्येवंरूपा हि प्रतीतिः। न तु “चक्षुति, शरीरं ज्ञातृ" इति । अतः कार्येषु ज्ञानस्याविद्यमानत्वात् न कारणेषु तदनुमानं शक्यम् । एतेन आकाशस्य शब्द इव शरीरादेरकारणगुणपूर्वक एव गुणो ज्ञानमिति निरस्तम् । ज्ञानस्य कार्याश्रितत्वासिद्धः ॥
कार्य गुणात्वा भावे हेत्वन्तरमाहः१२४. अज्ञानाच्च ॥ ६ ॥
सुषु तो ज्ञानसामान्यं नास्ति । यदि शरीरादिकार्यगुणो ज्ञानं तर्हि एवं ज्ञानाभात्रो न स्यात् । तद्गुणानां यावत्स्वरूपभावित्वात् । अतो न तद्गुणः ज्ञानम् । एवं क्लनद्रव्येषु यस्य कस्यापि ज्ञानाश्रयत्वायोगात् अतिरिक्त द्रव्य तदाश्रयभूतमस्तीत्यनुमीयते । तद्रव्यमात्मा ॥
एवमात्मसाधकहेतुकथनेन फलितमाहः१२५. अन्यदेव हेतुरित्यनपदेशः॥ ७ ॥
उक्तरीत्या इन्द्रियार्थेभ्योऽन्यत् ज्ञानमेव हेतुः आत्मसाधकं प्रमाणमिति हेतोः इन्द्रियार्थरूपो हेतुः पूर्वोक्तोऽनपदेशः अहेतुः ।।
एकस्य हेतुत्वे अपरस्य अहेतुत्व कथं भवेत् । सोऽपि हेतुः कुतो न भवेत् । न ह्ये कस्यानुमेयस्य एक एव हेतुरित्यस्ति नियमः। क्रियावत्त्वाद्गुणवत्त्वाऽच्चेति स्वयमुक्तः । अत्राह