________________
५१
तृतीयाध्याये प्रथममाह्निकम् १२६. अर्थान्तरं ह्यान्तरस्यानपदेशः ॥ ८ ॥
अन्योऽर्थः अन्यस्यार्थस्य अनपदेशो हि भवति । न हि घटः पटस्य पटो वा घटस्यापदेशो भवति । तहि कथं ज्ञानमात्मनोऽपदेशो भवति । अन्यद्धि ज्ञानम् । अन्यश्चात्मा। सत्यम् । मिथः असम्बद्धयोर्द्वयोरर्थयोः एक इतरस्य हेतुर्न भवतीत्युक्तम् । ज्ञानात्मानौ तु मिथः सम्बद्धौ । आश्रयायिभावश्च सम्बन्धः । तेन आश्रयि ज्ञानं आश्रयस्यात्मनः हेतुर्भवति । असम्बद्धत्वात्त, इन्द्रियार्था न हेतवो भवन्ति । ननु भोग्यभोक्तृभावसम्वन्धस्तत्रास्तीत्युक्तम् । सत्यमुक्तम् । किन्तु शरीरेन्द्रियादेरेव तद्भोक्तृत्वमस्त्विति तत्रान्यथासिद्धिदोष उक्तो न विस्मर्तव्यः ।
उक्तार्थविवेकद्रढिम्ने हेतुभावार्हान् सम्बद्धान् अर्थान् विभज्य दर्शयति :१२७. संयोगि समवाय्येकार्थसमवायि विरोधि च ॥ ६ ॥
धूमोऽग्निना संयुक्तः अग्नेर्हेतुः । आकाशे समवेतः शब्दः तस्य । स्पर्शन एकस्मिन्नेवार्थे समवेतं रूपं तस्य । रक्तमुखो नकुलः हतस्य सर्पस्य चेति । यद्वा एवं सम्बन्धवन्तोऽप्यर्थाः अनपदेशा भवन्तीति पूर्वसूत्रात् अनपदेशपदमनुषज्य योज्यम् । तत्र च इमान्युदाहरणानि । अग्नि—मस्य । सत्ता द्रव्यस्य । स्पर्शों रूपस्य । मार्जारो मूषिकस्येति ॥
सद्धेतवस्तहि के इत्यत्र तेषामुपलक्षणानि कानिचिदाह चतुभिः सूत्र:१२८. कार्य कार्यान्तरस्य ॥ १० ॥ अपदेशो भवतीति शेषः । यथा आम्रफले रूपान्तरं रसान्तरस्य । १२६. अभूतं भूतस्य ॥ ११ ॥
अनिष्पन्न निष्पन्नस्यापदेशो भवति । यथा अपतिता वृष्टिः वाय्वभ्रसंयोगस्य निष्पन्नस्य । वायुना विशकलिता हि मेघा न वर्षन्ति ॥
१३०. भूतमभूतस्य ॥ १२ ॥ निष्पन्नमनिष्पन्नस्य । यथा पतिता वृष्टिः असञ्जातस्य वाय्वम्रसंयो
गस्य।
१३१. भूतो भूतस्य ॥ १३ ।। निष्पन्नो निष्पन्नस्य । यथा प्रसवो गर्भाधानस्य । पूर्व अभूतं भूतमिति
१३