________________
१२
वैशेषिकसूत्रवृत्ती सामान्ये नपुंसकम् । अत्र अपदेशं बुद्धौ कृत्वा पुंस्त्वम् ।
एते परं कथं हेतवो भवन्तीत्यत्र नियामकमाह१३२. प्रसिद्धिपूर्वकत्वादपदेशस्य ॥ १४ ॥
प्रसिद्धिः प्रमात्मको दृढो व्याप्तिनिश्चयः । तस्मिन् सत्येव कश्चिदर्थः अन्यानुमितिहेतुर्भवति । अन्यथा न । एवं प्रसिद्धिपूर्वकत्वात् सद्धेतोः उक्तानां हेतूनां च निश्चितव्याप्तिकत्वात् ते सर्वे सद्धेतवो भवन्तीति भावः। यस्मिन् फले रूपान्तरं तस्मिन् रसान्तरं, यदा पतनात् वृष्टिः न पतति तदा वाय्वभ्रसंयोगः, यदा वृष्टिः पतिता तदा उक्तसंयोगाभावः, या प्रसूते सा ततः प्राक् आहितगर्मा, इत्यस्ति निश्चिता व्याप्तिः। अत इमे सम्यञ्चोऽपदेशाः । व्याप्तिहेतोर्हेतुत्वापादिका । तदभावे हेतुरहेतुरिति सारार्थः ।।
सम्प्रति विवेकसिद्धये असद्धेतून निरूपयति :१३३. अप्रसिद्धोऽनपदेशोऽसन् संदिग्धश्चानपदेशः ॥ १५ ॥
अप्रसिद्धः एको हेत्वाभासः । असन् संदिग्धश्च अन्यौ द्वौ हेत्वाभासौ। आहत्य त्रयो हेत्वाभासाः । प्रसिद्धः निश्चितव्याप्तिकः । तद्विरुद्धः निश्चितविपरीतव्याप्तिका अप्रसिद्धः । विरुद्ध इत्यर्थः । असन् पक्षेऽवर्तमानः । असिद्ध इति प्रसिद्धः । संदिग्धः सपक्षविपक्षोभयवृत्तितया पक्षे साध्यसंदेहजनकः, अत एव संदिग्ध इत्युक्तः सव्यमित्रारः अनेकान्तिकापराभिधानः॥
अत्र आद्ययोर्द्वयोरुदाहरणम्१३४. यस्माद्विषाणी तस्मादश्वः ॥ १६ ॥
गां पक्षीकृत्य "अयमश्वः यस्माद्विषाणी" इति प्रयोगे विषाणित्वस्य अश्वत्वाभावव्याप्तत्वेन साध्यविरुद्धार्थसाधकत्वात् विरुद्धोऽयं हेतुः । अश्व पक्षीकृत्य तथा प्रयोगे विषाणित्वस्य हेतोः पक्षेऽश्व अवर्तमानत्वेन असिद्धोऽयम् ॥
अन्त्यमुदाहरति१३५. यस्माद्विषाणी तस्माद् गौरिति चानकान्तिकस्योदाह
रणम् ॥१७॥ विषाणित्वस्य गोत्वाभाववति महिषेऽपि विद्यमानत्वात् अनेकान्तिकत्वम् ।