________________
तृतीयाध्याये प्रथममाह्निकम् इति चेत्यादि हेत्वाभासप्रकरणावसानज्ञापकम् । पूर्वसूत्रे "इत्यप्रसिद्धासतोरुदाहरणमित्यनुसन्वेयम्'' इत्यपि ज्ञापकमिदम् ।
यदर्थमिदं विस्तृतं सदसद्धेतुनिरूपणं तदिदानीमाह१३६. आत्मेन्द्रियार्थसन्निकर्षाद्यनिष्पद्यते तदन्यत् ॥ १८ ॥
आत्मा इन्द्रियेण संयुज्यते । इन्द्रियमर्थन । ततो यत् निष्पद्यते उत्पद्यते तत् । कि तत् ? ज्ञानम् । अन्यत् । निरूपितेभ्यो हेत्वाभासेभ्यो भिन्नम् । सर्वदोषविमुक्तः आत्मसाधकः सद्धेतुरित्यर्थः । ज्ञानस्य उत्पत्तिकारणं आत्मेन्द्रियार्थसन्निकर्षः। आश्रयः आत्मा। उत्पद्यमानं ज्ञानं आत्मन्युत्पद्यत इति यावत् । इतरे सर्वे पदार्थाः आत्मनो भोगापवर्गसाधनत्वात् तस्य शेषभूताः। तस्य सिद्धिः ज्ञानात् निर्दोषाखेतोरिति एतदाह्निकप्रधानार्थप्रतिपादकं प्रात्मसाधनोपसंहारपरं चेदं सूत्रम् ॥
प्रमातुः स्वात्मानुमानमेवं स्यात् । परशरीरेऽप्यात्मास्तित्वज्ञानं कथं भवेदित्यत्राह :
१३७.. प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् ॥१६॥
प्रवृत्तिः फलाद्याहरणार्थः शारीरो व्यापारः । निवृत्ति: अनिष्टपरिहारार्थः सः । यथा सर्पदंशभिया पलायनम् । इमे। प्रत्यञ्चति अहमिति स्वमेव गृह्णाति, इति प्रत्यङ् । स चासौ आत्मा च प्रत्यगात्मा तस्मिन् । स्वस्मिन्नित्यर्थः । शरीरद्वारा स्वसंबन्धितयेति भावः। दृष्टे ज्ञाते । परत्र परात्मनि लिङ्ग ज्ञापकं प्रमाणम् । स्वयं हि इष्टमनिष्टं वा ज्ञात्वा इच्छन् जिहासन् वा प्रवर्तते निवर्तते वा। ईदृश्यो प्रवृत्तिनिवृत्ती परशरीरे पश्यन् प्रमाता ते अपि मत्प्रवृत्तिनिवृत्तिवत् तत्रत्यात्मज्ञानेच्छाप्रयुक्त इत्यध्यवस्यति । तस्मात् परात्मनि परशरीरस्थे स्वशरीरस्थप्रवृत्तिनिवृतितुल्ये प्रवृत्तिनिवृत्ती लिङ्गमिति ॥
इति
कणादसूत्रवृत्ती सुगमायां तृतीयाध्याये प्रथममाह्निकम् ॥