Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 60
________________ वैशेषिकसूत्र ९७. सामान्य प्रत्यक्षाद् विशेषाप्रत्यक्षाद विशेषस्मृतेश्च संशयः ॥१७॥ शब्दस्य गुणत्वं कार्यत्वं च सिद्धं कृत्वा तेन आकाशसिद्धिः पूर्वमुक्ता। तस्य तदुभयसाधनाय अद्य प्रकरणान्तरमारभ्यते । तत्र संशयपूर्वकत्वाद् विचारस्य प्रथमं संशयमेव तद्धेतुमिनिरूपयति । एकस्मिन् विरुद्धनानाप्रकारकं ज्ञानं संशयः । स कथं जायत इति चेदुच्यते । सामान्यस्य धर्मिद्वयसाधारणस्य धर्मस्य ऊर्ध्वत्वादेः प्रत्यक्षात् इन्द्रियजन्यज्ञानात्, विशेषस्य एकधर्मिमात्रवृत्तेः इतरव्यावर्तकस्य स्थाणुत्वपुरुषत्वादेः अप्रत्यक्षात् प्रत्यक्षज्ञानाभावात्, विशेषस्य स्थाणुत्वपुरुषत्वादेः स्मृतेः स्मरणाच्च भवतीति । अनतिप्रकाशे स्थले ऊध्वं 'वस्तु' किमपि दृष्ट्वा संशेरते “अयं स्थाणु र्वा पुरुषो वेति' । तत्र इदं हेतुत्रयमस्ति । अथवा इदं समुदितं एको हेतुः ॥ १८. दृष्टं च दृष्टवद् द्रष्टा ॥१८॥ संशये हेत्वन्तरमाह । दृष्टं पूर्व दृष्टं यज्ञदत्तं दृष्टवत् पूर्वदृष्टकञ्चुकोष्णीषधारि देवदत्तमिव, एतद्वत् कञ्चुकोष्णीषधारिणमित्यर्थः । द्रष्टा च, एवं दर्शनाच्च संशयो भवति । अयं यज्ञदत्तो देवदत्तो वेति । यज्ञदत्तस्य आकारविशेषः, देवदत्तवेषः तेन ध्रियमाणश्चेति द्वौ विशेषो दृश्यमानौ विशेषान्तरद्ववावगाहिनं संशयं जनयतः । चकारेण हेत्वन्तरसमुच्चयः प्रतीयते । मुखं व्यादाय स्वपितीत्यत्र पूर्वकालत्वस्येव दृष्ट्वा संशयः इत्यत्र समानकर्तृकत्वस्याविवक्षा। ६९. यथा दृष्टमयथादृष्टं चोभयथा दृष्ट त्वात् ॥१६॥ प्रथमं चैत्रः शिखावान् दृष्टः । ततः कृत्तशिखः । एवमुभयथा दर्शनानन्तरं पुनः कदाचिद् दूरे दृष्टः । तदानीं तस्य शिखावत्त्वे 'चैत्रः शिखारहितोऽपि भवति । तस्मादयं चैत्रो न वे'ति संशयो भवति । विशिखत्वेऽपि स शिखावानपि तदयं स वा न वेति संशयो भवति । तस्मादेकस्य पूर्वमुभयथा दर्शनमपि पश्चात् संशयहेतुः ॥ १००. विद्याऽविद्यातश्च संशयः ॥२०॥ विद्या ज्ञानम् । अविद्या ज्ञानाभावः । ताभ्यामपि संशयो भवति । ज्ञाने जाते विद्यमानमपि रजतं ज्ञायते । अविद्यमानमपि शुक्तौ । तस्मात् विषयो वस्तुतो विद्यते

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154