Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 58
________________ वैशेषिकसूत्रवृत्तिः ८६. नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति ॥६॥ कालस्य आकाशादिव्यावृत्तं सर्वकार्यकारणत्वाख्यं विशेषमाह । काल इत्याख्या व्यवहारः । इयं न केवले आकाशादितुल्ये कस्मिश्चिद् द्रव्ये, अपितु कारणे सर्वकार्यकारणभूते। कालः सर्वकार्यकारणमित्यर्थः । कुतः अन्वयव्यतिरेकाभ्याम् । इदमाह नित्येप्विति । कस्य भावोऽभावश्च । अस्मिन् काले इदमुत्पद्यत इति व्यवहारस्य । वसन्ते पुष्पाणि जायन्ते । वर्षासु देवो वर्षति । शरदि पर्णानि पतन्ति । इत्यादेः । नैष नित्येषु भवति । उत्पत्तेरेवाभावे तस्यां कालविशेषान्वयायोगात् । अनित्येपु भवति च । इदानीं घटो जातः । इदानीं इदं पक्वम् इति । ननु इदानीमिति सामग्रीसन्निधानमुच्यते, न काल इति चेन्न । इदानीमित्यस्य पदस्य काल एव शक्तत्वात् । सामग्रीसनिधानस्य तदवच्छेदकत्वात् । वसन्ते वृक्षाः पुष्प्यन्ति फलन्ति चेति व्यवहारतुल्य एवायं व्यवहारः । यदा सामग्री सन्निहिता तदा घटो जायते, इति कालस्य कारणत्वमभिप्रेत्यैव व्यवहार इति स्पष्टम् । आकाशः सर्वदाऽस्ति, घटः पूर्वमासीत्, इत्यादिभिर्व्यवहारैः कालस्य सर्वाधारत्वं प्रतीयत इत्यन्यदेतत् । वसन्ते पुष्पाणि जायन्त इत्यादिभिर्व्यवहारैः तस्य सर्वकार्यकारणत्वमन्यत्रोच्यत इत्यवधेयम् । इतिशब्दः कालप्रकरणावसानसूचनार्थः। ६०. इत इदमिति यतस्तद् दिश्यं लिङ्गम् ॥१०॥ व्यवहितमपि अपरं परमित्येतदनुषज्यते । इतः अस्माद् वस्तुनः, इदं वस्तु अपरं, परमिति प्रतीतिः व्यवहारश्च यतः यस्माद् विषयतया हेतुभूतात् भवति, तत् अपरत्वं परत्वं च दिश्यं दिक्सम्बन्धि लिङ्गम् । दिशः साधकं प्रमाणमित्यर्थः । दक्षिणसमुद्रस्य हिमाचलात् विन्ध्यः अपरः । अस्मात् हिमाचलः परः । अपरत्वं सन्निकृष्टदिक्संयोगात् जायमानो गुणः । परत्वं विप्रकृष्टदिक्संयोगात् जायमानो गुणः । अस्य अपरत्वस्य विन्ध्ये, परत्वस्य हिमाचले च जनकं हि किञ्चित् कारणं वाच्यम् । तत् कारणं दिगित्युच्यते। ६१. द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥११॥ तस्याः द्रव्यत्वं नित्यत्वं च वायुन्यायेन सिद्धम् । द्रव्याद्याधारत्वात् द्रव्यत्वम् । कार्यत्वाभावेन वायुपरमाणुवन्नित्यत्वम् ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154