________________
प्रथमाध्याये प्रथमाह्निकम् (२४) गुणवैधान्न कर्मणां कम ।
कर्मणां कर्म समानं कारणं न भवति । कस्मात् । गुणवैधात् । स्यन्दनकारणं द्रवत्वरूपो गुणः । पतनकारणं गुरुत्वगुणः । चेष्टाकारणं प्रयत्नगुणः । अत्र सर्वत्र तत्तत्क्रियोत्पत्तेः पूर्व स स गुणः वर्तते । तत्तत्कार्यनियतपूर्ववृत्तित्वात् कारणं भवति। न त्वेवं कर्मोत्पत्तेः पूर्वं किमपि कर्म वर्तते । उत्तरदेशसंयोगे उत्पन्ने तज्जनकं कर्म नश्यति । नष्टं अविद्यमानं तत् कथं अन्यत्कर्म जनयेत् । अतो नियतपूर्ववृत्तिभ्यो गुणेभ्यः नियतपूर्वनाशतया विलक्षणं कर्म कर्मणां कारणं न भवति । इदमभिप्रेत्यैव पूर्वमुक्त "कर्म कर्मसाध्यं न विद्यते" इति ।
ननु संयोगजसंयोगवत् कर्मजं कर्म कुतो न भवतीति चेन्न, हस्तपुस्तकसंयोगे सति पुस्तकसंयुक्तः कायः इत्यपि व्यवहारस्य सत्त्वात् तस्य मुख्यत्वोपपत्तये संयोगजसंयोगोऽङ्गीक्रियते । हस्तचलने सति कायश्चलति इति व्यवहारस्य मुख्यत्वं न शक्यमुपपादयितुम् । हस्तसंयोगादतिरिक्तस्य कायसंयोगस्येव हस्तचलनातिरिक्तस्य कायचलनस्य दुर्वचत्वात् । चलनं हि क्रिया जाता विभाग, पूर्वसंयोगनाशं, संयोगान्तरं च अवश्यं जनयेत् । अन्यथा क्रियात्वस्यैवासंभवात् । न च हस्तचलनजनितविभागाद्यपेक्षया व्यतिरिक्त कायचलनजनितं विभागादिकं किञ्चित्सुवचम् । अतो न संयोगजसंयोगवत् कर्मजं कर्म शक्यमङ्गीकर्तुम् । कायश्चलतीति प्रतीतिः अवयवे अवयविशब्दप्रयोग इति औपचारिक्येव ॥२४॥ २५. द्रव्याणां द्रव्यं कार्य सामान्यम् ।
द्रव्यगुणकर्मणां कारणभावेन साधारणत्वतदभावौ पञ्चभिः सूत्ररुक्तौ । अथ इतः प्रभृति तेषामेव कार्यभावेन साधारणत्वमाह । कार्यभावोऽपि अनेककारणनिरूपित इह अभिप्रेतः। कपालद्वयस्य घटरूपमेकं कार्य समानम् । तन्तूनां बहूनामेकः पटः । तदत्र अनेकद्रव्य विषये द्रव्यरूपमेकं कार्य समानमित्युक्तम् ॥२५॥ २६. द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च ।।
___ अनेकद्रव्याणां एते गुणाः कार्यभावेन समानाः । द्वित्वप्रभृतयः—एकत्व व्यतिरिक्ताः । अनेकवटसत्त्व एव हि द्वित्वादिसंख्या जायन्ते । पृथक्त्वं एकपृथक्त्वप्रभृति