________________
इत्थं द्रव्यनिरूपणतत्परं द्वितीयाद्यध्यायत्रयम् । एतदनन्तरं निर्देशक्रमेण गुणनिरूपणे कर्तव्येऽपि भोक्त रात्मनः, भोग्यानां विषयाणां, भोगोपकरणानां शरीरेन्द्रियाणां च निरूपणे कृते भोगहेतोः तद्व्यवस्थापकस्य च पुण्यपापरूपस्य कर्मणः तद्वारा कर्मसामान्यस्य च उपस्थित्या तन्निरूपणं पञ्चमषष्ठाभ्यां क्रियते । अत्र लौकिकवैदिकभेदेन कर्मविभागमभिप्रेत्य अध्यायभेदकल्पनम् ।
अनन्तरं सप्तमप्रभृति दशमान्तं अध्याय चतुष्टयं गुणनिरूपणपरम् । तत्र सप्तमाद्ये रूपादयश्चत्वारो गुणाः परिमाणं च विषयीभवन्ति । द्वितीये सङ्खचापृथक्त्वे, संयोगविभागो परत्वापरत्वे च । अत्र संयोगेन शब्दार्थयोस्तदभावोपस्थापनद्वारा तत्सम्बन्धोपस्थापनात् तन्निरूपणं संयोगविभागनिरूपणानन्तरं क्रियते । अत्रान्ते इहेदमिति प्राधाराधेयभावव्यवस्थापकस्य समवायसम्बन्ध रूपस्य षष्ठपदार्थ य लक्षणादिकमुच्यते । अष्टमे नवमे च बुद्धिनिरूपणम् । तत्र विशिष्टप्रत्यक्षस्य सकारणल्य अष्टमाये । विशिष्टप्रत्ययवत् बुद्ध्यपेक्षः शाब्दव्यवहारः इन्द्रियार्थसन्निकरेत्येतद्घटकार्थशब्दार्थः,इन्द्रियाणां प्रकृतिश्च द्वितीये ।
बाह्यभावप्रत्यक्षतरप्रत्यक्ष नवमाये । प्रत्यक्षप्रकरणे तद्विषयतया असदिति धमिप्राधान्येन च अमावं निरूपयन् उद्देशसूत्रे अनिर्देशेन ज्ञापितं तस्याप्राधान्यमत्र द्रढयति । प्रत्यक्षतरबुद्धिनिरूपणं द्वितीये । एतेन बाह्यभावप्रत्यक्षातिरिक्तज्ञाननिरूपणं नवमाध्यायकृत्यमिति फलति ।
सुखदुःखविषयं दशमस्य आद्यमाह्निकम् । इच्छाद्वेषप्रयत्नानां पञ्चमषष्ठयोः प्रसिद्धवद् व्यवहारेण तेषु विशेपेण निरूपणीयं नास्तीति मत्या तनिरूपणात् उदास्तेति भाति । द्वितीये कारणवैविध्यं निरूप्य यथोपक्रमं धर्मस्य आम्नायप्रामाण्यस्य च कीर्त. नेन शास्त्रमुपसंह्नियते । ऋषिपदाभिधानेन ईश्वरसाधनमत्र विशेषः ।
एवमापाततः प्राकुलत्वभानेऽपि सर्व सङ्गतमेवेति अवधानवता प्रतिपत्तिभवत्येव । षण्णां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञानस्य उद्दिष्टत्वेऽपि द्रव्यगुणकर्मणामेव तविशेषेण कुर्वन् तदितरेषां प्रप्राधान्यं ज्ञापयति । एकस्मिन् पूरे