________________
वैशेषिकसूत्रवृत्ती सर्वम् । यत: घटान्तरसत्त्र एव अयं तस्मात् पृथगिति प्रतीतिव्यवहारौ भवतः । एकस्यैव घटस्य समवायिकारणत्वेऽपि स्वतन्त्रान्वयव्यतिरेकशालित्वात् घटान्तरस्यापि कारणत्वं वाच्यमेव । तत्तु निमित्तकारणत्वम् । अथापि अनेकघटकारणकत्वमक्षतम् । न च एकत्वस्येव एकपृथक्त्वस्य स्वभावसिद्धत्वात् न कारणापेक्षेति वाच्यम् । तथा सति घट: शुक्लः एक इति घटान्तरादिवस्त्वन्तरनिरपेक्षप्रतीतिव्यवहारवत् पृथागत्यपि तदापत्तेः । न च सूत्रकारः स्वाभिप्रायं एवं क्वचित्प्रकाशयति । प्रत्युत अस्मिन् सूत्रे संयोगादिभिः सह अविशेषेण पृथक्त्यपाठात् सर्वं पृथक्त्वं तदा तदा उत्पद्यत इति ज्ञापयति ।
संयोगस्य द्रव्यद्वयनिष्ठत्वात् सः अनेकद्रव्यस्य एक कार्य समानम् । एवं विभागोऽपि द्रव्यद्वयस्य समान कार्यम् । संयुक्तयोरेव विभागात् ॥२६॥ (२७) असमवायात सामान्यकार्य कर्म न विद्यते ।
अनेकद्रव्यस्य यथा द्रव्यं गुणश्च उक्तरीत्या समानं कार्य तथा कर्म न भवति । कस्मात् ? कर्मणः एकद्रव्यमात्रवृत्तित्वात् । अनेकद्रव्ये समवायाभावात्, अवर्तमानत्वात् । (२८) संयोगानां द्रव्यम् ।
अथानेकस्य गुणस्य सामान्य कार्यमाह । कार्य सामान्यमित्यनुवर्तते । संयोगानां तन्तुगतानां बहूनां पटरूपं एक द्रव्यं समानं कार्यम् ॥२८॥ (२६) रूपाणां रूपम् ।
तन्तुगतानां बहूनां रूपाणां एक सामान्यं कार्य पटगतं एक रूपम् । पूर्व द्रव्यस्य समानकार्यत्वमुक्तम् । अत्र गुणस्य ॥२६॥ (३०) गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् ।
उत्क्षिप्यमाणवस्तुगतं गुस्त्वं, उत्क्षेप्तुः प्रयत्नः, वस्तुनः उत्क्षेप्तृहस्तसंयोगः, इत्येषां गुणानां एकमुत्क्षेपणात्मकं कर्म समानं कार्यम् । अत्र कर्मणः समानकार्यत्वमुच्यते ॥३०॥