________________
प्रथमाध्याये प्रथमाह्निकम (३१) संयोगविभागाश्च कर्मणाम् ।
द्रव्याणां गुणानां च समानं कार्यमुक्तम् । अद्य कर्मणां समान कार्यमाह । कारणानेकत्वप्रकरणात् कर्मणामित्यनेन संयुज्यमानयोवियुज्यमानयोर्वा उभयोः कर्माणि गृह्यन्ते । तेषां संयोगा विभागाश्च समानकार्यभूताः ॥३१॥ (३२) कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम, ।
ननु “संयोगविभागाश्च कर्मणा"मिति पूर्वसूत्रे कर्मणां संयोगविभागरूयगुणमात्रं समानं कार्यमुक्तम् । द्रव्याणां यथा द्रव्यं गुणश्चेति द्वपं गुणानां च यथा द्रव्यं गुणः कर्म चेति त्रयं समान कार्यमुक्तं तथा कर्मणां कुतो नोच्यते इति शङ्कापरिहाराय पूर्वोक्तं स्मारयति-कारणसामान्य इति ।
___कारणसामान्ये । कारणं सामान्य मिति यत्रोक्तं तत्प्रकरणमिह कारणसामान्यपदेनाभिधीयते । तत्र "न द्रव्याणां कर्म” इति कर्म द्रव्यकारणं न भवतीत्युक्तम् । "गुणवैधान्न कर्मणां कर्म" इति कर्मकारणं न भवतीति च । इत्थं द्रव्यकर्मणी प्रति कर्म न कारणमित्युक्तत्वात् द्रव्यकर्मणी कर्मणः कार्ये न भवत इत्यप्युक्तप्रायम् । तथा च कर्मणां द्रव्यं कर्म वा यस्मान्न कार्य भवति तस्मात् कर्मणः द्रव्यं कर्म वा किञ्चित् समानं कार्य भवतीति वचनस्य नास्त्यवसरः । अतो नोच्यत इति भावः ।।
अस्मिन् आह्निके द्वात्रिंशत् सूत्राणि । तत्र प्राद्यानि त्रीणि औपोद्धातिकं धर्मविषयं एकं प्रकरणं भवन्ति । चतुर्थमेकं शास्त्रस्य विषयप्रयोजननिर्देशपरं द्वितीयं प्रकरणम् । पञ्चमषष्ठसप्तमानि आद्यत्रिपदार्थीविभजनपरं तृतीयम् । अष्टमात्प्रभृति पञ्चविंशतिः सूत्राणि द्रव्यगुणकर्मणां साधर्म्यवैधर्म्यनिरूपणाय प्रवृत्तमेकं महाप्रकरणम् ।
तत्र अष्टमं त्रयाणां साधर्म्यमाह । नवमदशमे द्रव्यगुणयोः साधर्म्यमाहतुः । इदमनयोः साधर्म्य कर्मापेक्षया अनयोर्वधर्म्यमपि भवति । एकादशद्वादशसूत्रे अवयविनो द्रव्यान्तरत्वं समर्थयती पूर्वसूत्रयोः शेषतां गच्छतः । त्रयोदशं सूत्रं कर्मणः सजातीयानारम्भकत्वेन द्रव्यगुणापेक्षया वैधयं ब्रूते । एवामियं पट्सूत्री त्रयाणां पदार्थानां नाश्यनाशकभावेतरधर्मः साधर्म्यवैधर्म्यकथनतत्परा एकमवान्तरप्रकरणम् ।