________________
वैशेषिकसूत्रवृत्ती
चतुर्दशादीनि त्रीणि सूत्राणि नाश्यनाशकभावपुरस्कारेण त्रयाणां साधर्म्यवैधये प्रतिपादयन्ति । सजातीयारम्भकत्वं हि पूर्व प्रस्तुतम् । तेनोपस्थितं नाशकत्वमनन्तरं तन्त्रीक्रियते । इदमपरमवान्तरप्रकरणम् ।
सप्तदशप्रभृतीनि त्रीणि त्रयाणां पदार्थानां लक्षणकथनपराणि । लक्षणं अतिव्याप्तिरहितत्वेन इतरपदार्थापेक्षया वैधयं भवति । अव्याप्तिरहितत्वेन सजातीयसर्वापेक्षया साधयं भवति ।
विशप्रभृतिभिः पञ्चभिः सूत्रः द्रव्यगुणकर्माणि एषामेव कारणभावेन साधर्म्यवैधर्म्यरूपाणि भवन्तीत्युच्यते । इदमन्यदवान्तरप्रकरणम् । एषामेव कार्यभावेन साधर्म्यवैवात्मकत्वप्रतिपादकं पञ्चविंशादारभ्य अष्टसूत्रात्मकं अंतिममवान्तरप्रकरणम् । एवमुत्तरत्र सर्वत्र प्रकरणविभागो द्रष्टव्यः ।।
इति कणाद सूत्रवृत्तौ सुगमायां प्रथमाध्यायस्य प्रथममाह्निकम् ॥
प्रथमाध्याये द्वितीयाह्निकम् । (३३) कारणाभावात, कार्याभावः।१
द्रव्यगुणकर्माणि साधर्म्यवैधाभ्यां निरूपितानि । अथ सामान्यं निरूपणीयम् । तत्र सामान्यसत्त्वे किं प्रमाणं इति चेत् । तद्वक्तव्यम् । तत्र प्रत्यक्षमेव प्रमाणमिति सुवचम् । घटदर्शने हि अयं सन्, इदं द्रव्यं, इयं पृथिवी, अयं घटः, इति चाक्षुषं प्रत्यक्षं जायते । तथापि द्रव्यगुणातिरिक्त सामान्य मिति किं नाम तत्रोपलभ्यते इत्याक्षिपन्तं प्रति इदमिति निर्दिश्य तत्प्रदर्शनं न शक्यते कर्तुम् । अतस्तस्य अनुमानं प्रमाणं प्रदर्शनीयम् । तत्र प्रथमं व्याप्तिं प्रदर्शयति अनेन सूत्रेण । कार्याभावः कारणाभावप्रयुक्तः इति सूत्रस्याक्षरार्थः । तेन यत्र कारणाभावः तत्र कार्याभाव इति व्यतिरेकव्याप्तिः प्रदर्शिता भवति । यत्र कार्य तत्र कारणमिति अन्वयव्याप्तिश्च अर्थलभ्या। द्रव्यं सत्, गुणः सन्, कर्म सत्, इत्यनुगताकारा प्रतीतिर्भवति । न चेयं बाधिता । अतः
F. 63