________________
प्रथमाध्याये द्वितीयाह्निकम् प्रमासत्ताविषयेयं प्रतीतिः । कार्या च, चक्षुर्जन्यत्वात् । प्रतीतौ च विषयः कारणम् । न हि विषयं विना प्रतीतिर्भवितुमर्हति । तथा च अनुगतप्रतीत्यात्मककार्यरूपलिङ्गात् कारणं सामान्यमनुमीयते, इत्युक्तं भवति । (३४) न तु कार्याभावात कारणाभावः ।।२
कार्यं व्याप्यं, कारणं व्यापकमिति कृत्वा पूर्वसूत्रोक्ता व्याप्तिः समीचीना । तन्मूलकमनुम नं च । एतद्विवेकाय कारणं व्याप्यं, कार्य व्यापकमिति कृत्वा गृह्यमाणा तु व्याप्तिः दुष्टा, तन्मूलमनुमानं च दुष्ट मिति अनेन सूत्रेण बोध्यते । कार्याभावप्रयुक्तः कारणाभाव इति तु न संभवति । धटानुत्पत्तावपि दण्डस्य सम्भवात् । प्रतीतिविरहेऽपि भूम्यन्तर्गतजलस्य विद्यमानत्वात् । तथा च यंत्र कार्याभावः तत्र कारणाभाव इति व्यतिरेकेण वा, यत्र कारणं तत्र कार्यमित्यन्वयेन वा व्याप्तेरभावात् कारणात् कार्यानुमानं न सम्भवति । एवमनुमानं प्रयुज्यमानं आभासरूपं स्यात् । न च एवंविवं कार्यात् कारणानुभानम् । अतः अनुगतप्रतीत्या सिद्ध्यति तद्विषयभूतं सामान्यम् । (३५) सामान्य विशेष इति बुध्यपेक्षम ॥३
सामान्यं द्विविधं केवलसामान्यं विशेषात्मकसामान्य मिति, इति विभागमभिप्रेत्य सामान्य मिति विशेष इति च व्यवहारे नियामकमाह । इति-इतिव्यवहरणमित्यर्थः । बुद्धिं अपेक्षत इति, बुद्धेरपेक्षा यस्येति वा बुद्धयपेक्षम् । अपेक्षा अधीनप्रवृत्तिकत्वम् । समानाकारबुद्धिजनने तज्जनको धर्मः तां बुद्धि निमित्तीकृत्य सामान्यमिति व्यवह्रियते । व्यावृत्तिबुद्धिजनने तज्जनको धर्मः तां बुद्धिं निमित्तीकृत्य विशेष इति व्यवह्रियते । स्वकार्यभूतसमानाकारबुद्धिवशात् धर्मस्य सामान्यमिति व्यवहारः प्रवर्तते । तथा स्वकार्यभूतव्यावृत्तबुद्धिवशात् विशेष इति व्यवहारः। तत्र कश्चन धर्मः समानाकारामेव बुद्धिं जनयतिः न तु व्यावृत्तबुद्धिम् । स धर्मः केवलसामान्यम् । कश्चन धर्मः उभयों बुद्धिं जनयति अनुवृत्तबुद्धिं च व्यावृत्तबुद्धिं च । स धर्मः विशेषात्मकसामान्यम् । सामान्यं च विशेषश्चेति यावत् । समानाकारप्रतीतिजनकत्वं बुद्धौ कृत्वा सामान्यमिति व्यवहरन्ति । व्यावृत्तप्रतीतिजनकत्वं बुद्धौ कृत्वा विशेष इति व्यवहरन्ति, इति वा बुद्धयपेक्षत्वमुपपादनीयम् ।
तत्र केवलसामान्यं तस्य तथात्वे हेतुकथनपूर्वकं दर्शयति