________________
वैशेषिकसूत्रवृत्ती (३६) भावोऽनुवृत्तेरेव हेतुत्वात, सामान्यमेव ।।४
भावः सत्ता । भूवातुहि सत्तावाची । सामान्यमेव न तु विशेषोऽपि । केवलसामान्यमिति यावत् । कुतः । अनुवृत्तेरेव हेतुत्वात् । अनुवृत्तिरिह प्रतीतेविवक्षिता। एकस्यां व्यक्तौ यादृशी प्रतीतिः तादृश्या एव व्यक्तयन्तरेषु उत्पत्तिः अनुवृत्तिः । अस्या एव हेतुः सत्ता । पृथिव्यादीनि द्रव्याणि सन्ति, रूपादयो गुणाः सन्तः, कर्माणि उत्क्षेपणादीनि सन्ति, इति त्रिष्वपि पदार्थेषु सत्तया प्रतीत्यनुवृत्त रेव जायमानत्वात् । द्रव्यं न गुणः, न कर्म, सत्वादिति सत्ताहेतुकव्यावृत्तिप्रतीतेरजायमानत्वात् । सत्ता हि गुणे कर्मणि च विद्यमानत्वात् गुणभेदे कर्मभेदे वा न हेतुः । यद्यपि द्रव्यं न सामान्यं सत्त्वात् इति सामान्यादिव्यावृत्तिप्रतीतो हेतुर्भवत्येव सत्ता, तथापि जातिमतां द्रव्यगुणकर्मणां मिथो भेदप्रतीतेरेव व्यावत्तिपदेन विवक्षितत्वात् ईदृशव्यावृत्तिहेतुत्वाभावाच्च सत्तासामान्यस्य, इदं केवलसामान्यमेवेति युक्तो निर्णयः । (३७) द्रव्यत्वं गुणत्वं कम त्वं च सामान्यानि विशेषाश्च ॥५
सामान्यस्य द्वितीयां विघामिह दर्शयति । पृथिव्यादिषु नवस्वपि द्रव्येषु द्रव्यं द्रव्यमित्यनुगतप्रतीतिहेतुत्वात् द्रव्यत्वं सामान्यम् । पृथिवी न गुणः, न कर्म, द्रव्यत्वात् इति व्यावृत्तिप्रतीतिहेतुत्वात् विशेषश्च । एवं गुणत्वकर्मत्वयोरपि द्रष्टव्यम् । अत इमानि विशेषात्मकानि सामान्यानि । न परं एत एव विशेषाः सामान्यरूपा भवन्ति, अपि तु अन्येऽपि बहवो विशेषाः तथाविधाः सन्तीति ज्ञापयन् अर्थात् सामान्यादनन्तरं निर्दिष्टं पञ्चमं पदार्थमपि लक्षयति(३८) अन्यत्रान्त्येभ्यो विशेषेभ्यः ।।६
विशिष्यते व्यावय॑ते भिन्नतया बोध्यते अनेनेति विशेषः । अन्ते यावन्तो विशेषाः तेषां चरमे स्थाने भवाः अन्त्याः । यदपेक्षया अपरो विशेषो नास्ति ते अन्त्या विशेषाः। जलादिपरमाणू नां सर्वथा एकरूपत्वात् मिथो भेदसिद्धयर्थं एककस्मिन् परमाणौ एकको विशेषोऽस्तीत्यभ्युपगम्यते । एकपरमाणुमात्रवृत्तित्वेन एककोऽपि विशेषः केवलं विशेष एव । न तु कथमपि सामान्यम् । अनेकवृत्तित्वे हि सामान्यत्वं स्यात् । न चास्य सामान्यत्वाभावे एतदपेक्षया अपरो विशेषः संभवति । अतः इमे अन्त्या