________________
१८
प्रथमाध्याये द्वितीयाह्निकम् विशेषाः । अन्यत्रेत्यव्ययं अन्येत्यर्थे प्राचीनप्रयोगसिद्धम् । अन्त्येभ्यो विशेषेभ्योऽन्ये ये विशेषाः ते सर्वे सामान्यानि विशेषाश्च भवन्तीति पूर्वसूत्रादनुवर्त्य योज्यम् । न परं ते विशेषा एव अपि तु सामान्यान्यपि भवन्तीत्यत्र तात्पर्यम् । द्रव्यत्वं यथा सकलद्रव्यवृत्तितया सामान्यं, गुणादिव्यावर्तकतया विशेषश्च तथा पृथिवीत्वं सकलपृथिवीवृत्तित्वेन सामान्यं, अनादिव्यावर्तकतया विशेषश्च, तथा घटत्वं सकलघटवृत्तित्वेन सामान्यम्, परादिव्यावर्तकतया विशेषश्च । एवं गुणत्वव्याप्यधर्मेषु रूपत्वशुक्लत्वादिषु, कर्मत्वव्याप्यधर्मेषु पाकत्वगमनत्वादिष्वपि द्रष्टव्यम् ।।
एवं शब्दतः द्रव्यत्वगुणत्वकर्मत्वव्यतिरिक्ताः अन्त्यविशेषभिन्नाश्च बहवो विशेषाः सामान्यात्मानः सन्तीति प्रतिपादनेऽपि, विशेषाः द्विविधाः सामान्यरूपाः केवलाश्चेति विभागः, पदार्थनिर्देशसूत्रे विशेषपदेन केवला एव विवक्षिताः, तेषां च अनुगताकारप्रतीतिहेतुत्वाभावे सति व्यावृत्तिप्रतीतिहेतुत्वं लक्षणमिति ज्ञापनं च अर्थतोऽभिप्रेतमिति ज्ञयम् ।
इमे अन्त्या विशेषाः सर्वनित्यद्रव्यवृत्तयः ॥
इत्थं सामान्ये प्रमाणमुक्तम् । विभागश्च कृतः । अथ तत्र अन्यत् किमपि वक्तुं सत्तायाः पूर्वोक्तां प्रमाणतः सिद्धिमनुवदति । (३९) सदिति यतो द्रव्यगुणकम सु सा सत्ता ।।७
अत्र प्रतीतिरित्यध्याहार्यम् । द्रव्येषु गुणेषु कर्मसु च परस्परं भिन्नेष्वपि सदिति एकाकारा प्रतीतिः विषयविधया हेतुभूतात् यस्मात् पदार्थात् भवति स पदार्थः सत्ता सत्ताशब्दवाच्या । पूर्वं भाव इत्युक्तोऽर्थः इह सत्ताशब्दप्रयोगात् विवृतः ।।
विवक्षितमाह(४०) द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता।
अन्योऽर्थः अर्थान्तरम् । सत्ता न द्रव्यं, न गुणः, न कर्म । अपितु पृथक्पदार्थान्तरमित्यर्थः । सन्ति बहवः सामान्यतदाश्रययोरभेदं वदन्तः । ते न सम्यग्दर्शिनः । अन्यत्सामान्यम् । अन्यश्च तदाश्रयः । प्रतीतिबलादिति भावः ॥