________________
वैशेषिकसूत्रवृत्ती
ननु आश्रयायिभावात् व्यक्तिभेदः सिद्धयतु । पदार्थान्तरत्वं तु कथं इत्यत्राह :(४१) गुणकम सु च भावान्न कर्म न गुणः ।।६
गुणाश्च कर्माणि च, तेषु । चकारः द्रव्यममुच्चये । यथा द्रव्येषु तथा गुणकर्मसु च सत्ता वर्तते । भावो वृत्तिः विद्यमानत्यम् । यस्माद् गुणेषु च वर्तते तस्मात् सत्ता न कर्म न गुणः । यस्मात् कर्मसु च वर्तते तस्माच्च सा न कर्म न गुणः । सत्ता न गुणः गुणवृत्तित्वात् । द्रव्यभेदवत् कर्मभेदवच्च । एवं सत्ता न कर्म कर्मवृत्तित्वात् । द्रव्यभेदवद् गुणमेदवच्चेत्यपि प्रयोगो द्रष्टव्यः । न चाप्रयोजकत्वम् । गुणानां कर्मणां वा गुणवत्त्वे कर्मवत्त्वे वा प्रमाणाभावात् । न हि पृथिवी गन्धवतीत्यादिवत् गन्धः एतद्गुणवान् एतक्रियावान् इत्यादिरीत्या कुत्रचित् कदाचित् कस्यचित् प्रतीतिरस्ति । न च गन्ध एकः इति संख्यारूपो गुणः, रसः पृथक् इति पृथक्त्वगुणश्च गुणेषु वर्तते । एवं कर्मस्वपीति वाच्यम् । गन्धाश्रवस्य द्रव्यस्यैकत्वेन तद्गतस्य गन्धस्यैकत्वव्यवहार इत्येवमुपपत्तौ गन्धस्य स्वातन्त्र्येण संख्याश्रयत्वायोगात् । एवं पृथक्त्वाश्रयत्वमपि न युज्यते। द्वे ज्ञाने इति ज्ञान द्वित्वं विषयगतेन ज्ञातृगतेन कालोपाधिद्रव्यगतेन वा द्वित्वेनोपपाद्यम् । द्वौ शब्दाविति अभिव्यञ्जकवायुगतेन । द्वे क्रिये इति आश्रयद्रव्यभेदे सति तद्गत द्वित्वेन अन्यथा कालोपाधिद्रव्यगतेन । एवं सर्वत्र अन्यथैव प्रतीत्युपपत्तिसम्भवात् गुणकर्मणोः गुणो वा कर्म वा नास्तीति निश्चीयते । अस्ति तु सत्तासामान्यम् । अतो नेदं गुणः कर्म वा । ननु यद्यप्येवं सत्ता न गुणः नापि कर्म । अथापि द्रव्यं स्यात् । न हि द्रव्ये भावान्न द्रव्यमिति ववतुं शक्यम् । अवयवद्रव्ये अवयविद्रव्यस्य वर्तमानत्वात् इति चेन्न, गुणकर्मसु च भावादित्यनेन द्रव्यमात्रवृत्तित्वाभावादिति हेत्वन्तरस्याप्याक्षिप्तत्वात् । तथा च सत्ता न गुणः कर्म वा द्रव्यमात्रवृत्तित्वाभावात् इति यथाऽस्य हेतोः गुणकर्म भेदसाधकत्वं तथा "न द्रव्यं, द्रव्यमात्रवृत्तित्वाभावात्, गुणमेदवत्कर्मभेदवद्वा" इति द्रव्यभेदसाधकत्वमप्यव्याहतम् । अतः “सत्ता न द्रव्यं द्रव्यवृत्तित्वात् गुणवत्कर्मवद्वा" इत्यनुमानस्य साध्याभाववति अवयविद्रव्ये हेतोः सत्वेन अनैकान्तिकत्वादसाधकत्वेऽपि न दोषः । अत्र गुणेषु भावान्न गुणः । कर्मसु भावान्न कर्म, इति यथासंख्यं न विवक्षित