________________
२०
प्रथमाध्याये द्वितीयाह्निकम् मिति ज्ञापनाय गुणकर्मसु इति समासकरणं, उपरि न कर्म न गुण इति कमान्तराश्रयणं चेति ज्ञयम् । (४२) सामान्यविशेषाभावेन च ॥१०
सत्तायाः द्रव्यगुणकर्मभ्योऽर्थान्तरत्वे हेत्वन्तरमिदम् । सामान्यस्य वा सामान्यात्मकविशेषस्प वा सत्तायामभावाच्च सत्ता द्रव्यं वा गुणो वा कर्म वा न भवति । द्रव्ये सत्तासामान्यं द्रव्यत्वं च, गुणे सत्ता गुणत्वं च, कर्मणि सत्ता कर्मत्वं च इत्युभयमस्ति । न चैवं सत्तायामस्ति । न तावत् तत्र सत्ता वर्तते । स्वस्य स्ववृत्तित्वायोगात् । नापि द्रव्यत्वादिकम् । इयं द्रव्यं गुणः कर्म वा इति प्रतीतिविरहात् । अतः सामान्यविशेषाभावात् सत्ता न द्रव्यं गुणः कर्म वा ।
ननु सत्तायां सत्ताद्रव्यत्वादिविरहेऽपि सामान्यत्वं नाम सामान्यं वर्तत एव । अतः सामान्य विशेषाभावेनेति हेतुरसिद्ध इति चेन्न । सामान्यमिति हि समानधर्म उच्यते । अतोऽस्य भावः सामान्यत्वं समानधर्मत्वमेव । सखण्डपदार्थरूपमिदं न सत्ताद्रव्यत्वादिवत् अखण्डधर्मरूपं सामान्यं भवति । न च सतो भावः सत्तेति सत्ताऽ पि सखण्डपदार्थ एवेति शङ्कयम् । शब्दस्यैवं व्युत्पादनेपि अखण्डधर्मस्यैव तेन वाच्यत्वात् । अनवस्थात्मकं जातिबाधकं चात्र द्रष्टव्यम् । (४३) अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ।। ११
द्रव्यत्वस्य द्रव्यादिभ्यः पदार्थान्तरत्वं साधयितुं प्रथमं तस्य प्रमाणसिद्वत्वं स्मारयति । द्रव्यत्वं सामान्यमिति पूर्वमुक्तम् । केन हेतुना । सर्वेषु द्रव्येषु द्रव्यं द्रव्यमिति अनुगतप्रतीतिहेतुत्वेन । अनेकानि द्रव्याणि अनुगतप्रतीतिविषयमित्वेन अस्य वर्तन्त इति अनेकद्रव्यवत् । तत्त्वेन । अत्र अनेकद्रव्यगत्वेनेति, अनेकद्रव्यमतत्वेनेति वा किं पाठान्तरमस्तीति विमर्शनीयम् ।
अत्र द्रव्यगुणकर्मभ्योऽर्थान्तरं द्रव्यत्वम् । सामान्यत्वात् सत्तावदिति अतिरिक्तत्वमपि उक्त अनुसन्धेयम् ।
अतिरिक्तत्वे पूर्ववत् हेत्वन्तरमाह -