________________
वैशेषिकसूत्रवृत्तौ
(४४) सामान्यविशेषाभावेन च ॥ १२
इति । न द्रव्यत्वे सत्ता वर्तते । द्रव्यं सत् इत्यादिरूपाया एवानुगतप्रतीतेः सत्वात् । द्रव्यत्वं सदित्येवंरूपायाः अभावात् । ननु द्रव्यत्वमस्तीति व्यवहारोऽस्त्येव । तेन द्रव्यं सदिति प्रत्ययोऽपि अस्तीत्येवाभ्युपगन्तव्यमिति चेन्न । एतादृशव्यवहारस्य अस्ति प्रमाविषयः, मत् कालसंवन्धि, इत्याद्यर्थान्त रपरत्वात् । सत्तासामान्यपरत्वाभावात् इत्थं द्रव्यत्वं द्रव्यमित्यादिप्रतीतिविरहात् द्रव्यत्वादिकमपि तत्र नास्तीति ज्ञ ेयम् । एवं सामान्यविशेषाभावेन द्रव्यत्वं न द्रव्यं, न गुणः, न कर्म । (४५) तथा गुणेषु भावात, गुणत्वमुक्तम ॥ १३
२१
गुणत्वसामान्यस्य पदार्थान्तरत्वोपपादनाय पूर्वोक्तां तस्य सिद्धिमनुवदति । यथा त्रिषु पदार्थेषु अनुगतप्रतीतिविषयतया विद्यमानत्वेन सत्ता सिद्धा, यथाच सर्वेषु द्रव्येषु तथाविधप्रतीतिविषयतया विद्यमानत्वेन द्रव्यत्वं सिद्धमित्युक्त ं तथा सर्वेषु गुणेषु अनुगतप्रतीतिविषयतया विद्यमानत्वेन गुणत्वमपि सिद्धमित्युक्तमित्यर्थः ।
,
द्रव्यगुणकर्मभ्योऽर्थान्तरं गुरणत्वम् । सामान्यत्वात् । सत्तावत् द्रव्यत्ववच्चेत्यप्युक्तमित्यनुसंधेयम् ।
अत्र पूर्ववत् 'अनेकगुणवत्त्वेन गुणत्वमुक्तम्' इति सुवचम् । पूर्वमेव वा " द्रव्येषु मावाद् द्रव्यत्वमुक्तम्" इति । तथापि अनेकव्यक्तिवृत्तित्वं सामान्यस्य जीवितमित्येतत्स्फुटीकरणाय बहुवचनगम्यमिदं पूर्वं कण्ठोक्तम् । अत्र तत्सुगममिति बहुवचनमेव प्रादृतमिति ज्ञेयम् । अस्मिन् सूत्रे तथेत्येतत् किं सूत्रकारेणैव प्रयुक्त, अवतारिकारीत्या पश्चात् कैश्चिद्यजितं वेति युक्ता चिन्ता ।
(४७) सामान्यविशेषाभावेन च ॥ १४
पूर्वंवत् गुण्णत्वस्य द्रव्यगुणकर्मभ्योऽर्थान्तरमिदम् । न हि गुणत्वे सत्ता वा द्रव्यत्वादिकं वा अस्ति । अतः तेभ्यः पदार्थान्तरमिदम् ।