________________
प्रथमाध्याये द्वितीयाह्निकम (४७) कम सु भावात कमत्वमुक्तम ॥ १५
कर्मत्वसामान्यसिद्धिं पूर्वोक्तां स्मारयति । सर्वेषु कर्मसु अनुगतप्रतीतिविषयतया विद्यमानत्वात् कर्मत्वं सिद्धमित्युक्तम् । कर्मत्वं द्रव्यगुणकर्मभ्योऽर्थान्तरं ज्ञेयम् । सामान्यत्वात् सत्तादिवत्, इति अर्थान्तरत्वमप्युक्त ज्ञेयम् ।
(४८) सामान्यविशेषाभावेन च ॥ १६
अर्थान्तरत्वे पूर्ववत् हेत्वन्तरमिदमिति स्पष्टम् । (४६) सदिति लिङ्गाविशेषात विशेषलिङ्गाभावाच्चैको भावः ॥ १७
सामान्यसत्त्वे प्रमाणं तद्वैविध्यं तस्य पदार्थान्तरत्वं च स्थापितम् । अथास्य एकत्वं स्थापयति । अनेकासु व्यक्तिषु एकाकारा प्रतीतिः सामान्ये प्रमाणमित्युक्तम् । या इमाः अनेकवस्तुपु समानप्रकारा बुद्धयः ताः सर्वाः तद्वस्तुवृत्त्येकधर्मप्रयुक्ताः, समानाकारबुद्धित्वात् । एकमेव दण्डं क्रमेण धारयत्सु पुरुषेषु, अयं दण्डी अयं दण्डीति जायमानबहुबुद्धिवत् इत्यनुमानं तत्राऽभिप्रेतम् । या नैवं ता नैवं यथा घटपटदण्डकुण्डलादिप्रकारकबुद्धयः, इति व्यतिरेक्यनुमानं च । एवं एकैकमपि सामान्य प्रमाणेन सिद्धयत् एकमेव सिद्धयति । अनेकत्वसंशयस्यापि नास्त्यवसरः । तथाऽपि मन्दमतिः कोऽपि तथा मा शङ्किष्टेति, अनेनैव प्रकारेण वस्त्वन्तरेषु एकत्वं साधनीयमिति उत्तरत्र प्रतिपादनसौकर्याय च सिद्धमेव सत्तायाः एकत्वं साधयत्यनेन सूत्रेण । सदिति अनुवृत्तप्रतीतिरूपं यत् लिङ्ग ईदृशप्रतीतिधर्मिकं समानाकारत्वहेतुकं यदनुमानं तदिह लिङ्गपदेन विवक्षितम् । तस्य अविशेषात्, विशेषाभावात्; सत्तासामान्यस्य एकत्वविरोधिनानात्वापादकाकारस्य अभावात् । सदिति प्रतीतिरेव वा लिङ्गमिति विवक्षिता। एकस्मिन् पदार्थे सदिति प्रतीतिर्याशी तादृश्येव साक्षात् पदार्थान्तरेऽपि । न मात्रयाऽपि वैलक्षण्यम् । अतो नानात्वहेतोरभावात् एकैव सत्तेति प्रतितिष्ठति । यद्यपि साधकप्रमाणे नास्ति स विशेष: येन सत्तानानात्वं भवेत्, तथापि प्रमाणान्तरेण तत् किं न भवेदित्यत्राह - विशेषलिङ्गाभावाच्चेति । विशेष