Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 44
________________ अथ द्वितीयाध्याये प्रथममाह्निकम् द्रव्यगुणकर्मसामान्यानि सामान्यतो निरूपितानि । अथ विशेषतो निरूपणमारभते । तत्र प्रथमं द्रव्यविशेषनिरूपणम् । ५०. रूपरसगन्धस्पर्शवती पृथिवी ।।१।। रूप रसः स्पर्शः गन्धः इत्येतेश्चतुर्भिगुणैर्युक्ता पृथिवी । एते चत्वारो गुणाः शब्देन सह पञ्च पञ्चानां भूतानां गुणाः। तत्र आकाशेतरभूतचतुष्टयवृत्तित्वेन एते चत्वारो गुणाः एकराशीभवन्ति । अतः पूर्व गुणनिर्देशे अत्र च एषां समासकरणम् । तत्र भूतनिर्देशकमेण गन्धरसरूपस्पर्शा इति, अथवा चतुस्त्रिद्वयेकभूतवृत्तित्त्वानुरोधेन स्पर्शरूपरसगन्धा इति, एतद्वती पृथिवीति च एषां गुणानां निर्देश उचितः । तथापि इन्द्रियेषु चक्ष षः प्रधानत्वात् तद्ग्राह्यस्य रूपस्य प्राथम्यम् । द्रव्यत्रयप्रत्यक्षत्वे हेतुत्वाच्चैवम् । तदानन्तर्य द्रव्यद्वयवतिनो रसस्य । एतदानन्तयं एकभूतमात्रवर्तिनो गन्धस्य । भूतचतुष्टयवतिष्नो स्वस्थानाद् भ्रष्टस्य स्पर्शस्यान्ते निवेशः । ५१. रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च ॥२॥ उक्तेषु चतुर्यु गन्धवर्ज अन्ये त्रयो गुणाः अपाम् । द्रवत्वं स्नेह इति अन्यौ च द्वौ गुणौ। ५२. तेजो रूपस्पर्शवत॥३॥ रसगन्धवजं द्वौ गुणौ तेजसः । रूपस्पशौं । पूर्वसूत्रवत् रूपस्पर्शवत् तेज इति युक्तं वक्तुम् । तथाऽपि गुणसंख्याया अल्पीभावज्ञापनाय क्रमान्तराश्रयणम् । एवमुतरत्रापि। ५३. वायुः स्पर्शवान् ॥ ४॥ चतुर्युगुणेषु स्पर्श एको वायोः, न रूपम् । न रसः, न गन्धः ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154